This page has not been fully proofread.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
याद्वराहस्तथा
 
विश्वंभरां बिभर्त्ययं ब्रह्मवराहः । यथा मुस्ता-
या निष्कम्पा निरपाया स्थितिः स्यात्तथा अस्या इति व्य-
ज्यते । यथा मुस्ता स्तम्बादितृणप्ररोहस्य मूलं भवेत्तथेयं
विश्वंभरा जगत्कन्दभूतेत्यपि व्यज्यते । वराहदंष्ट्रायां मुस्ते-
वातिसूक्ष्मा दृश्यते विश्वंभरा भगवदंष्ट्रायामिति च व्यज्यते ।
'यथा वनान्निःसरतो दता घृता मतङ्गजेन्द्रस्य सपत्र-
पद्मिनी ।' इति गजेन्द्रदंष्ट्रागतपद्मिनीव भूपद्मं शुशुभे इति
श्रीशुकानुभवः । 'दंष्टानुषक्तां धरणीं दधानो जम्बालरेखा-
मिव केलिलग्नाम् ।' इत्याचार्याणामनुभवः सङ्कल्पसूर्योदये ।
पङ्करेखावदत्यन्तसूक्ष्मा दृश्यते भूः । रेखा निरतिशयसूक्ष्मा ।
सपङ्के पल्वले विहरतो मुस्ताक्षतिं च कुर्वतो वराहस्य दं-
ष्ट्रायां पङ्करेखालगनं सुसंभवि । अत्र मुस्तात्वेनानुभवः ।
तत्क्षति: सहजा वराहाणाम् । तच्च वर्णितमुदाहृत शाकुन्तल-
लोके। खुरदन्नप्रमाणे समुद्रपल्वले विहरतानेन वराहेण लब्धा
जगत्कन्दभूता देवी तद्दंष्ट्रायां विहारलग्ना मुस्तेव भासते ।
' हृदि सुररिपोर्दष्टोत्खाते क्षिपन्प्रलयार्णवं क्षितिकुचतटीमर्च-
न्दैत्यास्रकुङ्कुमचर्चया। स्फुटधुतसटाभ्राम्यद्ब्रह्मास्तवोन्मुखबृ-
म्हितः शरणमसि मे रङ्गि॑िस्त्वमूलकोलतनुर्भवन् ॥' इति
श्रीमद्भट्टारकैर्ब्रह्मत्वप्रदर्शनं कोलवपुषः ॥
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)
 
५८
 
-
 
B