This page has been fully proofread once and needs a second look.

घापाद्यरसतन्स्यतापादने । दृश्यकाव्येषु नाटकेषु नाट्यमा-
नेषु मृनृत्ते चाभिनेयस्य स्थायीभावस्य सभ्यानुभवगोचर-
तापत्तिः सुलभतरा । तत एव तत्काव्यानां दृश्य-
त्वविशेषणम् । यदि रस एव नायको नटश्च भवेत्तञ्चेष्टितं
कृत्स्नं रसमयं स्यात् । आनन्दमयस्य भगवतो मुख्यं रस-
त्वम्, तत्संबन्धेनेतरसुखानां रसत्वमिति च
श्रुतयः । 'रसो वै सः, रसं ह्येवायं लब्ध्वानन्दी भवति ।
इति तैत्तिरीयश्रुतिः । यद्यत्सुखत्वेन लौकिका मन्यन्ते तत्सर्व
सवासनं परित्यक्तं अयमिति निर्दिष्टेन मुमुक्षुणासङ्ग ब्रह्माति-
रिक्तसर्वसङ्गदृढपरित्यागिनासङ्गशस्त्रेण सुविरूढमूलसंसारवृ-
क्षस्य दृढच्छेदिना । पुत्रेषणाया वित्तेषणाया लोकेषणायाश्च
व्युत्थाय भिक्षाचर्यं खल्वयं ब्राह्मणश्चरति । ब्राह्मण इति
ब्रह्ममात्रसंस्पर्शवान्स्पर्शान्तररहितः । यदि दारपुत्रास्त्यक्ताः
के एनं पोषयेदन्नादिना। स्याद्वित्तम् येन पाचकान्संपाद्य
तैर्भरणं कार्येतेति चेत्तदपि त्यक्तम् । यदि तप्यत्यक्ष्यत के-
नावमभोक्ष्यत ? तत्रोच्यते - 'भिक्षाचर्यं चरति' इति ।
चर गतिभक्षणयोः । पूर्वो गतौ । द्वितीयो भक्षणे भैक्ष्य-
हेतोर्न चरणादधिकं कुर्यात् । न भिक्षामपि याचेत वाचा
' भिक्षां देहि ' इति गुरुकुले वर्तमानमाणवकवत् । अटन-
 
-