This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
भूतजीवराशयो विच्छिद्येरन् । भगवता दता तामुद्धृत्य तत्र
तस्या निष्कम्पां स्थितिं संपाद्यानेककोटि सुखप्रसवसंभवो नि-
वर्त्यते ॥
 
असौ । पुरोवतिष्ठत इव देवी भूराचार्याणामनुभवे ।
यथा ' सैषा देवी' इति श्रीस्तुत्यन्ते । ध्रुवमध्यक्षितोऽवतार-
वृत्तान्त: सर्वोऽपि स्तोत्रकाले । भूम्येकदेशमध्यस्थैरस्माभिः
कथं तस्याः पुरोवर्तित्वेन निर्देश्यत्वस्य संभवः । ईदृशाव-
तारदशापरोक्षणकाल एव तत्संभवः ॥
 
भगवती विश्वंभरा । विश्वं भरतीयम् स्वगर्भे । इमां
बिभर्ति भगवदंष्ट्राङ्कुरकोटि: । तं बिभर्ति तस्य स्वो महिमा ।
अथ वा न सोऽपि । भगवर्ती भगवान्विभर्ति । 'विश्वंभरा
भगवती भवतीमसूत ।' इत्युत्तररामचरिते । तन्नातिसुन्द-
रम् । ' सर्वं बिभ्रती तव माता त्वामध्यसूत' इति सीतां
प्रति वचनं कथं तस्याः स्तुतौ पर्यवस्येत् । यथा सर्वान्प्रा-
णिनो गर्ने बभार तान् सुषुवे, तथा त्वामध्यसूतेति खलु
तद्वचन भङ्गीपर्यवसानम् । 'भगवती विश्वंभरा ' इति
पदयोः सम्यग्विनियोजनं क्रियते आचार्यैरित्यवधेयम् ॥
 
मुस्तेव । यथा मुस्तां लीलयानायासेन दन्ताप्रे बिभु-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)