This page has not been fully proofread.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 

 
मो ग्रामसियान्' इति प्रतिवक्ति । घोणया घ्राणेनापहृतभुवो
मार्गणं कारणसूकरस्य सुकरमभूत् । यथा वीक्षणैर्मार्गणं नि-
र्मग्नस्य श्रुतिजालस्य, तथा घोणाया आघ्राणैर्मार्गणं निर्मना-
या भुवः । 'निशम्यते घुर्घुरितम्' इति श्रीशुकानुभवः प्रत्य-
भिज्ञाप्यते घुर्घुरशब्देन । शुकानुभवानुकरणं वराहरूप भगव-
द्धोणारवानुकरणं च संपाद्यत एतच्छब्देनेति सहृदयैर्भाव्यम् ।
भगवत्कृतवेदघोषानूञ्चारणरूपाध्ययनसंपादनेन तत एव सा-
श्राद्ध्ययनसंप्रदाय: संपादित: स्यात् । गुरुकुलवासरूपश्रम-
बिलम्बाक्षमाणामियं काचिद्गतिरध्ययनप्रापणे ॥
 
यदंष्ट्राकुरकोटिगाढघटनानिष्कम्पनित्यस्थितिः। 'दं-
ष्ट्रामकोट्या भगवंस्त्वया धृता विराजते भूधरभूः सभूधरः '
• स्वदंष्ट्रयोद्धृत्य महीं निमनाम्' 'भूमण्डलेनास्य दूता
घृतेन ते' 'तस्य चोद्धरतः क्षोणीं स्वदंष्ट्रामेण लीलया '
इत्यादिरार्षोऽनुभवः स्मार्यते । 'गाढघटना' इति निष्कम्प-
नित्यस्थितौ हेतुः । अच्युतोऽयं वराहः । निष्कम्पत्वमनेक-
कोटिसुखप्रसषानुकूलम् ॥
 
ब्रह्मस्तम्बमसौत् । आब्रह्म स्तम्बपर्यन्तं कृत्स्नं भूतजा-
तं सुषुवे। असुरापहृतधराया अनिर्यातनेऽन्तः स्थितगर्भ-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)