This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
५३
 
चेतनान् सुखं सूते । अन्तर्वत्न्यः स्त्रियो आसन्नप्रसवा न
कम्पचलनादिकं सहेरन्निति प्रसिद्धम् । दंष्ट्राङ्कुरकोटिलग्नेयं
कोटिसहस्रप्रजाः सूते । यथा मुस्ता तद्दंष्ट्राङ्कुरे लग्ना
दृश्येत, तथा विश्वंभरा तत्र दृश्यते । किमु वाच्यं तस्य
निरतिशयबृहत्त्वे । तस्य विश्वशरीरत्वं सम्यगध्यक्ष्यते ।
तत्तद्योनिस्वभावोऽप्यहेयो भगवता तत्र तत्रावतीर्णेन । ब-
राहा नागासधमुद्रादौ विहरेयुः । पल्वलादौ पडिलजले
खुरदन्ने जानुदघ्ने वा विहरणं तेषां स्वभावः । विस्रब्धं
क्रियतां वराहततिभिर्मुस्ताक्षतिः पल्वले' इति कविसार्वभौ-
मः । अत्रोच्यते । अयं ब्रह्मवराहः । अस्य खुरदन्न एव
जले अयं विहरति । महोदधिरस्य खुरदघ्न इति प्रदर्श्यते
आचार्यै: । 'क्वापि कल्पान्तवेशन्ते खुरदने समुद्रताम् ।
चहते मेदिनीमुस्तां महते पोत्रिणे नमः ॥ ' इति सङ्कल्पसू-
र्योदये ॥
 
गोपायेदनिशं जगन्ति । नावतारकालिकरक्षणमात्रात्तृ-
प्यामः । अनिशं रक्ष्येमानेन ब्रह्मवराहेण । 'हरेघृतक्रोडत-
नोः स्वमायया' इति श्रीभागवते । देवीमावरक्षणेन व स-
न्तुष्यामः । एतद्रूपप्रदर्शनेन सर्वाणि जगन्त्यव्यात् ॥
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)