This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
· ४९
 
त्प्रालेयांशुः क्वचिदमृतविष्फूर्जितमिति । अतिक्षोभे सिन्धो-
रयमनघनिद्रो धृतगिरिर्विषादं देवानां विघटयति वैकुण्ठक-
मठः ॥ ' इति । नष्टद्रव्यरूपोचैःश्रवसैरावतकल्पवृक्षादिलाभे
तुमुल: शब्दो देवगणानां भवेत् । अब्धिरत्यन्तं क्षुभितः ।
वृतगिरिरयं वैकुण्ठकमठोऽनघं निद्राति । अयं कमठो सर्व-
प्रकारैरकुण्ठो वैकुण्ठो ब्रह्मकमठ इति को वा विप्रतिपद्येत ।
यद्यप्ययमसुरान्वळ्चयति मोहनावतारेण, न तेषां हननमस्मिन्न-
वतारे । ईदृशविचित्राघटितघटको भगवानेकमेव विघटयति ।
किं तदिति चेत् 'विषादं देवानां विघटयति ।'
 

 
अव्यासुः । पूर्व मात्स्यवपुषः प्रार्थनम् । अत्र निद्राण-
कूर्मदीर्घनिश्वासाः प्रार्थ्यन्ते । निश्वासैरस्मत्प्राणनं सुलभं
खलु । प्राणनैः प्राणनं सुकरम् ।प्राणभूतः परमात्मा
प्राणान् जीवान् जीवयति । 'प्राणा वै सत्यं तेषामेष सत्यम् ॥'
 
भुवनत्रयीम् । पूर्वावतारेण वेदरूपत्वयी रक्षिता । अने-
नापरा त्रयी त्रिभुवनरूपा रक्ष्यत इति व्यज्यते । 'वेदः'
लोकः' इति भेदो व्यवहारसिद्धः ॥
 

 
अनिभृतं कण्डूयनैरद्रिणा । 'बिभ्रत्तदावर्तनमादिक-
!
च्छपो मेनेऽङ्गकण्डूयनमप्रमेयः' इति शुकानुभव: प्रत्यभि-
MPL astry Library Free Digitisation indoscripts.org (ISRT)