This page has been fully proofread once and needs a second look.

रसः, मध्वपूपो यथा मधुकरैः । भुवीति निवृत्ततर्षा नित्य-
मुक्ता व्यावर्त्यन्ते । लयश्च विगलितवेद्यान्तरमनुभाव्यरसत-
न्मयतापत्तिः । 'तन्मयत्वं रसेषु' इति नटस्याभिनेयभाव-
तन्मयतायां भावुकसभ्येषु तद्भावसंक्रान्तिः सुलभा । रामा-
यणादिषु सीतारामशोकवर्णनप्रकरणेषु वयं रुदिमः स्थूल-
स्थूलान्नयनमुकुलैर्बाष्पबिन्दून्प्रतिकलं मुञ्चामः । ध्रुवं वयं
तदानीं करुणापराधीनास्तद्रसमयतां प्राप्नुमः । तच्च श्रव्य-
काव्ये पाठ्ये गेये च मधुरे । कथानायकनायक्यौ रुदितः ।
तच्छोकद्रष्टा ऋषिस्तिर्यग्दम्पतिवियोजनदर्शनेऽपि करुणवेदी
शोकाविष्टो भवति । तस्य शोकः श्लोकत्वमापद्यते । तच्छो-
कभरितश्लोकान्वयं श्रुत्वा शोकेनाविश्यामहे । ऋषेदर्शनम-
तिक्रान्तव्यवहितदर्शनमनुप्ग्रहलब्धदिव्यचक्षूरूपधर्मवीर्येण सं-
पन्नम् । न साक्षात्तत्तद्वृत्तान्तकाले स प्रत्यक्षदर्शी । कालदेश-
व्यवहितमपि तेन धर्मवीर्येण यथावत्प्रत्यक्षीकृतम् । तत्प्रत्यक्षी-
कृतं सोऽस्मान्श्रावयति स्वशोकभरितैः श्लोकैः । तैश्च वयं पुरा-
वृत्तान्तमिदानीन्तनमिवानुभूय नायकनायिकासमानशोका भ-
वामः । सुदूरबहुविप्रकर्षपरम्पराव्यवधानेऽप्यध्यक्षीकरणं-
समर्थता नापैतीत्यनुभवसिद्धम् । अनुग्रहलब्धधर्मवीर्य-
तुल्यवीर्यमस्त्युत्तमार्षकाव्यस्य श्रोतॄणां पठितॄणां च प्रति-