This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
रसः, मध्वपूपो यथा मधुकरैः । भुवीति निवृत्ततर्षा नित्य-

मुक्ता व्यावर्द्धत्यन्ते । लयश्च विगलितवेद्यान्तरमनुभाव्यरसत-

न्मयतापत्तिः । 'तन्मयत्वं रसेषु' इति नटस्याभिनेयभाव-

तन्मयतायां भावुकसभ्येषु तद्भावसंक्रान्तिः सुलभा रामा-

यणादिषु सीतारामशोकवर्णनप्रकरणेषु वयं रुदिमः स्थूल-

स्थूलान्नयन मुकुलैर्बाप्प ष्पबिन्दून्प्रतिकलं मुञ्चामः । ध्रुवं वयं

तदानीं करुणापराधीनास्तद्रसमयतां प्राप्नुमः । तच्च श्रव्य-

काव्ये पाठ्ये गेये च मधुरे । कथानायकनायक्यौ रुदितः ।

तच्छोकद्रष्टा ऋषिस्तिर्यग्दम्पतिवियोजनदर्शनेऽपि करुणवेदी

शोकाविष्टो भवति । तस्य शोकः श्लोकत्वमापद्यते । तच्छो-

कभरितश्लोकान्वयं श्रुत्वा शोकेनाविश्यामहे । ऋषेदर्शनम-

तिक्रान्तव्यवहितदर्शन मनु प्रहलब्धदिव्यचक्षुषूरूपधर्मवीर्येण सं-

पन्नम् । न साक्षात्तत्तद्वृत्तान्तकाले स प्रत्यक्षदर्शी । कालदेश-

व्यवहितमपि तेन धर्मवीर्येण यथावत्प्रत्यक्षीकृतम् । तत्प्रत्यक्षी-

कृतं सोऽस्मान्श्रावयति स्वशोकभरितैः श्लोकैः । तैश्च वयं पुरा-

वृत्तान्तमिदानीन्तनमिवानुभूय नायकनायिकासमानशोका भ-

वामः । सुदूरबहुविप्रकर्ष परम्पराव्यवधानेऽप्यध्यक्षीकरण-
णं-
समर्थता नापैतीत्यनुभवसिद्धम् 1 अनुग्रहलब्धधर्मवीर्य-

तुल्यवीर्यमस्त्युत्तमार्षकाव्यस्य श्रोतॄणां पठितॄणां च प्रति-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)