This page has not been fully proofread.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
त्स्यं वर्णयंस्तद्वीक्षणैर्जितो भवत्याचार्यः । अन्तर्जले मत्स्याश्री-
P
मामेव प्रसरसंभवः । २. क्षणशब्दोऽवधानार्थकः, उत्सवा-
र्थकश्च । मार्गणावधानव्याजेनास्माकमुत्सवप्रदैः मार्गणदशायां
दत्तोत्सवैः । ३. श्रुतयः सर्वा अपि निःशेषं मनाः । श्रुतयः
पुत्रस्य ब्रह्मणः, प्रजानां सर्वलोकानां च चक्षूंषि । ' वेदा मे
परमं चक्षुः' इति रुरोद ब्रह्म । प्रजाचक्षूंषि वेदाः भग-
चद्वीक्षणैरन्विष्यन्ते । ४. ननु कथमयं सर्वज्ञमत्स्य: जाल-
मन्विष्यतीत्युच्यते । भ्रान्ता मूढा मत्स्या बडिश भक्षणाय
जालसमीपं गच्छन्ति, बद्धयन्ते म्रियन्ते चेति चेत् - अयं
परमकारुणिको मत्स्यः श्रुतिजालं मार्गते, तेन बद्धो भूत्वा
जनश्रवणेषु प्रविश्य तद्वारा तानुज्जीवयितुं च । एतद्व्यञ्जयति
श्रुतिजालमार्गणेत्युक्ति: । ५. श्रवणस्य जले मग्नतायां नि:-
शब्दतानुभवः सहजः । लोकश्रवणभूतश्रुतौ जले निर्मने स-
शब्दता निवृत्ता भवति । ६. शब्दराशेरन्तर्जले मज्जने
तस्यात्यन्तं मृग्यता स्यात् । तद्दथोत्यत इव निर्मग्नशब्देन ●
७. ' मत्कुणाविव पुरा परिप्लवौ सिन्धुनाथशयने निषेदुषः ।
गच्छतः स्म मधुकैटभौ विभोर्यस्य नैद्रसुखविघ्नतां क्षणम् ॥'
इति माघे क्षणशब्दप्रयोगो मात्स्यवपुर्वर्णने । तस्य क्षणश-
शब्दस्यात्र विचित्रः प्रयोगः प्रदर्श्यते ॥
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)