This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
नानाकृतिर्नायिका । १. नानाकारवती । २. नाना-
विधकृतिमती । कृतिषु नायकमप्यतिशेते नायिका। 'लघुतरा
रामस्य गोष्ठी कृता' इत्यादिकमत्र भाव्यम् । पृथग्विधेष्व-
नुगुणान्भावान्बिभ्रतीत्येव नानाकारपरिग्रह उपपादितः ।
अत्र नानाकृतित्वेन नायकादपि विविधाधिककृतिमत्ववर्णनं
स्वरसं स्यादिति रसिकैर्भाव्यम् ॥
 
निर्मम श्रुतिजालमार्गणदशादत्तक्षणैर्वीक्षणै-
रन्तस्तन्वदिवारविन्दगहनान्यौदन्वतीनामपाम् ।
निष्प्रत्यूहतरङ्गरिङ्गणमिथः प्रत्यूढपाथश्छटा-
डोलारोहसदोहलं भगवतो मात्स्यं वपुः पातु नः ॥
 
अतिबृहद्भगवतो मात्स्यं वपुर्मकरालयं कृत्स्नं क्षोभयति ।
तिमिङ्गिलः, तिमिङ्गिलगिलः, तद्गिलस्तद्गिल इति गिलपरं-
परा पठ्यते । विश्वनिगरणशीलोऽयं महागिलः । भगव-
दर्चाप्रतिमाया डोलोत्सवं वयं चिकीर्षामः । तदर्थं वयं डोलां
निर्मिमीमहे । अतिबृहतो मात्स्यवपुषः के वा डोलां रचयितुं
प्रभवेयुः । कुतो वा तदर्थदार्वायसशृङ्गलादीनि संपाद्येरन् ।
डोलोत्सवं च दिदृक्षन्ति भक्ताः । 'किंस्विद्वनं क उ स
वृक्ष आसीद्यतो द्यावापृथिवी निष्टतक्षुः' इति पृच्छती श्रुतिः
MPL Sastry Library Free Digitisation indoscripts.org (SRT)