This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
४१
 
इति भूमविद्या अल्पे रसजनकत्वं निषेधति । इयं भूम्रो
भूमिका यद्यपि भूमापेक्षयाल्पा, अस्यां पूर्णसुखमित्यघटित-
घटकत्वं व्यज्यते । ३. 'नटवलूमिकाभेदैर्नाथ दीव्यन् पृथ-
ग्विधैः । पुंसामनन्यभावानां पुष्णासि रसमद्भुतम् ॥' इति
श्लोकः पूर्वमेवोदाहृतः ॥
 
अध्यक्षितः । १. अधोक्षजोऽदृश्योऽध्यक्ष्यते भूमिकाप-
रिग्रहेण । २. भगवान्नटश्चेत्कः सभाध्यक्षः । सभ्याः परका-
लादयस्तद्भक्तास्तं विना कमन्यं सभाध्यक्षं कुर्युः । अयं नट
एव सभ्यैर्भावुकैरध्यक्षत्वेन स्थाप्यत इत्यपि चारु व्यज्यते ।
३. सभ्यानेवायमध्यक्षान्मनुते । भावुकैरध्यक्षवदाचर्यते भ-
गबहुद्धचेत्यपि व्यज्यते । अध्यक्षणीयावतारसंख्या दश,
अध्यक्षकाभिनवदशावतारभूतभावुकसंख्यापि दश । ४. ब्रह्म-
रसस्य साक्षात्करणेनैव तद्रसोऽस्मान्सङ्कामति । एकस्य रसः
कथमन्यस्याध्यक्षयितुः स्यादिति चेद्रसस्य स्वभावोऽयम्,
यदेकत्रोत्पन्नमन्यान्द्रष्टृन् सङ्क्रमेदित्येतदपि व्यज्यतेऽभ्यक्षितो
भावुकैरिति ।
 
यद्भावेषु पृथग्विधेष्वनुगुणान्भावान्स्वयं बिभ्रती ।
पुमान् देवः शैलूषो भवेत् । स्त्रीवेषः प्रायेण पुंनटैः परिगृ-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)