This page has not been fully proofread.

श्रीमद्वेदान्तदेशिक स्तोत्राणि ।
 
लत्वाद्रङ्ग एव वसति । रङ्गं विना वेषपरिग्रहं विना न
क्षणमपीमाववस्थातुं शक्नुयाताम् ॥ भक्तार्तिपरिजिहीर्षया
भक्तमनोरथानुरोधेन सदा भूमिकापरिजिघृक्षुः सज्जस्तिष्ठ-
ति रङ्गे ॥
 
४०
 
लब्धनिर्भररसैर्भावुकैः । १. रसस्य लब्धत्वमाश्चर्या -
बहम् 'आश्चर्योऽस्य लब्धा' इति कठश्रुतिर्ब्रझरसलाभस्या-
त्यन्तदुर्लभस्वं वदति । तच्छ्रुतिः प्रत्यभिज्ञाप्यते लब्धशब्देन ।
 

 
'रसं ह्येवायं लब्ध्वानन्दी भवति' इति श्रुतिरपि सङ्गृह्यत
इति पूर्वमुक्तम् । श्रवणमेव न लभ्येत बहुभिः । श्रवणेऽपि
वेदनं दुर्लभम् । वेदनेऽपि प्राप्तिदुर्लभा । प्राप्तिश्च लाभश-
ब्देनोच्यते । सा चानुभवगोचरतापत्तिः । तदेवोच्यते महाक-
विना 'सङ्क्रान्तिरन्यस्य विशेषयुक्ता' इति । सङ्क्रान्ति रुच्यते
श्रुत्या ' एतमानन्दमयमात्मानमुपसङ्क्रम्य' इति । आनन्द-
वल्ल्युक्तवाळानसागोचरानन्दो निर्भररस इत्युच्यते । निर्भर-
रसः पूर्णरसः । पूर्ण ब्रह्म । रसो ब्रह्म । तद्विषयः पूर्णरस
उचितः । स च नास्मत्प्रयत्नेन संपादयितुं शक्यः । नैर्भ.
र्यरूपप्रपन्नत्वसंपादने संपूर्णो रसोऽनायासेन लभ्येत । नैर्म-
र्यलभ्यरसो निर्भरः पूर्ण: स्यादिति चारु व्यज्यते निर्भर-
शब्दमहणेन । २. ' यो वै भूमा तत्सुखं नाल्पे सुखमस्ति
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)