This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
३९
 
हम्' इति गीयते तथा तद्भावुकानां ख्यातिर्भूयात् । भावु
कख्यातिरवतारख्यातौ पर्यवस्येत् । फलश्लोकोक्तं सर्वमत्र
भत्वेन गृह्येत । ४. भूमिकां निर्वर्तयन्नः शुभमातनो तु
इत्यन्वयः ॥
 
-
 
दशधा । मध्यमणिन्यायेनोभयत्रान्वेति । दशधा शुभमा-
तनोतु, 'कृतं दशगुणं मया' इतिवत् । शुभ गुणनमस् य
सहजम् । तदर्थमेवायमवतीर्णः । शुभविग्रहं दशधा विस्तार-
यतु । एकस्यास्मत्प्रपन्नवेषस्य फलत्वेन दश वेषान्प्रदर्शयति
रूपकं नाटकेषु दीर्घतमम् । तच्च दशाङ्कम् । अवतारसंख्या पि
रूपाकाङसंख्यासमाना। ब्रह्मावतारसंख्या न न्यूनाङ्कसंख्यय
भवत् । एकमिदं नाटकं दशाङ्कम दशधा भूमिकां निर्वर्त
यन: शुभमातनोतु ॥
 
निर्वर्तयन्भूमिकाम् । भून्नोऽल्पभूमिकापरिप्रहस्य श्रम
साध्यत्वं पूर्वमुक्तम् । देहपरिमाणत्वमात्मनोऽभ्युपगच्छन्तो
जैना अस्माभिः पर्यनुयुज्यन्ते हस्तिशरीरपरिमाणो जीवः
पिपीलिकाजन्म प्राप्नुवन्न पिपीलिकाशरीरे संमीयेतेति ॥
 
रङ्गे धामनि । रङ्गं धाम गृहम् । अन्येषां सूत्रधारा
नटानां च रङ्गमन्यद्गृहमन्यत्स्यात् । अयं तु सदा नटनशी
MPL Sastry Libralty Free Digitisation indoscripts.org (ISRT)