This page has not been fully proofread.

३८
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
यति, नर्तयति। सूत्रत्वेऽपि सूत्रधारत्वेप्ययं सततनटः ।
सर्गस्थितिप्रलयविभ्रमनाटिकासु शैलूषवद्विविधवेषपरिग्रहो-
यम् । ४. नायं सभ्येभ्यो ग्रहीता नटः । अयं तु दाता
देवो नटः । ये स्वनाटकं पश्यन्ति तेषां सर्वस्वमात्मानमपि
यच्छति । ५. अन्यः प्राकृतो नट आत्मानं प्रद्योतयेद्वर्ण-
धारणादिना । अयं तु तेजसां राशिरूर्जितः । आत्मज्योति-
षमावृणोति योगमायया ॥
 
7723
 
नः शुभमातनोतु। १. शुभमिति शुभाश्रयविग्रहो गृह्येत,
नाभैकदेशे नामग्रहणम् । तेनैव खलु तद्विग्रहो लेखनीयोऽस्म-
हृदि । शुभविप्रहमस्मञ्चक्षुर्गोचरतया विस्तारयतु । 'विस्तार-
यन् क्रीडसि योगमायाम्' इत्यवतारक्रीडावर्णनं ब्रह्मणा । योग-
माया चाश्चर्यभूतशुभविग्रहः । 'तां देवमायामिव दिव्यरू-
पिणीम्' इति श्रीरुक्मिणीदिव्यमङ्गलविग्रहविषये । २. शुभ-
मिति भगवद्विग्रहापरोक्ष्यजनितानन्दसन्दोहोऽपि सङ्गृहीतः
स्यात् । अस्माकमानन्दं तनोतु, 'लक्ष्मीं तनोतु' इतिबत् ।
३. उपक्रमस्थंशुभमुपसंहारदृष्टशुभं स्यात् । एतत्स्तोत्रविव
क्षणे 'दिशासु दशसु ख्याति: शुभा जृम्भते' इति फलमु-
क्तम् । दशदिशासु जृम्भमाणा शुभा ख्याति: शुभशब्देना-
भिप्रेता स्यात् । यथावतारस्य ख्याति: 'यश: कलिमलाप-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)