This page has not been fully proofread.

दशावतारस्तोत्र व्याख्या ।
 
चतारैर्दृश्यौ भवतः । अतीतास्वप्यवतारदशासु तदनुप्रहसह-
कृतयास्मद्भावनयाध्यक्ष्येते ॥
 
6
 
देवः । १. रङ्गस्य मध्येऽत्यूर्जित तेजोवद्दीपोऽवश्यं निवे-
शनीयो नटान् शोभयितुम्, रङ्गशालां च दीपयितुम् । नि-
शि नाटकं नाट्येत । संसारनिशीमानि नाटकानि प्रबर्त्य-
न्ते । दीपापेक्षायां देवं विहाय कोऽन्यो दीपः प्रकाशेत
तत्संनिधौ । सहस्ररश्मेरपि सन्तमसपर्व खलु भवति त
निकटे । स्वयंप्रकाशः सो नान्यतः प्रकाश्यतामर्हति । न
तद्भासयते सूर्यो न शशाङ्को न पावकः ।' तिष्ठतु भासक-
त्वम् । स्वयमेव न भासेरस्तत्र । 'न तत्र सूर्यो भाति न
चन्द्रतारकम्' तद्दूरे आत्मानं यदि भासयेयुस्तदपि तद्भासैव ।
तमेव भान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभाति '
निरतिशयदीप्तियुक्तो द्योतमानोऽनन्याधीनस्व प्रकाशो देवः
स्वयं दीपो भवत्यात्मानं सभ्यान् रङ्गं च भासयितुम् ।
२. निष्कलस्य निष्क्रियस्य शान्तस्यास्य कथं नटनसंभवः ।
क्रीडनशीलत्वादयं नटो भवति । यद्यपि सर्वेश्वरोऽयं देवन-
लोलत्वान्नानाकारभूमिकाः परिगृह्य नटति । ३. अयं विश्वस्य
सूत्रम । अस्मिन्सर्वमिदं प्रोतं सूत्रे मणिगणा इव । लोक-
त्रय सूत्रधारोऽप्ययम् । सर्वानप्ययं सततं यन्त्रारूढानिव भ्राम-
6
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)