This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या
 

 
३५
 
कम्
 
। 'ज्योतींषि विष्णुर्भुवनानि विष्णुः' इत्यादिना
सर्वत्र ब्रह्मदर्शनमुपदिश्यते श्रीपराशरेण ।
6 यथाकाश-
स्थितो नित्यं वायुः सर्वत्रगो महान् । तथा सर्वाणि
भूतानि मत्स्थानीत्युपधारय ॥' इति गीताश्लोकभाष्ये 'स-
र्वाणि भूतानि तैरदृष्टे मयि स्थितानि मयैव धृतानीत्युपधारय ।
यथाहुर्वेदविदः ' मेघोदयः सागरसन्निवृत्तिरिन्दोर्विभागः स्फु-
रितानि वायोः ॥ विद्युद्विभङ्गो गतिरुष्णरश्मेर्विष्णोर्वि-
चिताः प्रभवन्ति माया: " इति विष्णोरनन्यसाधारणानि
महाश्चर्याणीत्यर्थः । श्रुतिरपि 'एतस्य वा अक्षरस्य प्रशासनं
गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः' 'भीषास्माद्वातः पव-
ते । भीषोदेति सूर्यः । भीषास्मादग्निश्चेन्द्रश्च मृत्युर्धावति
पञ्चमः ।' इत्यादिका इति भाषितम् । मेघोदयेत्यादिश्लोकः
एवं व्याख्यातस्तात्पर्यचन्द्रिकायाम् - अस्मदाद्यगोचरोपा.
दानोपकरणसंप्रदानादिकानां तत्क्षणादेव सकलदिङ्मुखव्या-
पिनां धाराधराणामुत्पत्तिः । सकलभुवनाप्लवनलम्पट स्यैव
जलनिधेरम्बरालम्बिनां तरङ्गाणां वेलातले निवृत्तिः । प्रतिनि-
यतकलावृद्धिक्षय शृङ्गोन्नमनादिरूपश्चन्द्रमसो विभाग: : अश-
डितागमानामनियतदिग्विशेषाणां तृणागरितरुषण्डऌण्टा कानां
चण्डमारुतादीनां विष्फूर्तयः, प्रशान्तदहनमिहिरम करादिमह-
MPL Sastry Library Flee Digitisation indescripts.org (IST)
 
6
 
SIF