This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
मृत्पिण्डेन सर्व मृन्मयं विज्ञातं स्यात्' इत्युपक्रम्य
ऐतदात्म्यमिदं सर्वम्' इत्युपसंहरतः पितुरेषोऽभिप्रायः ।
" यथा मृन्मयपदार्थेषु मदमेव पश्यसि, लोहमयपदार्थेषु
लोहमेव पश्यास, कार्णायसपदार्थेषु कृष्णाय एव पश्यास,
तस्य तस्योपादानत्वात् । तथा सर्वस्मिन्मृन्मये लोहमये
कार्णायसे इतरत्र च ब्रह्म पश्य, तस्य सर्वोपादा-
नत्वात्तदात्मकत्वात्सर्वस्य । स्वस्मिन्नपि ब्रह्म पश्य, तवापि
तदात्मकत्वात् । यावत्स्व स्मिन्विशेषे नैतदात्म्यस्योपसंहार-
स्तावन्न तस्यानुभवारूढता । 'अखिलजगत्स्वामिन्नस्मत्स्वा-
मिन्' इति गद्ये अखिलजगत्स्वामी स्यान्न स्वस्वामी,
स्वस्वातन्त्र्यस्यानादिदृढवासनामूलत्वात् । उपादानभूतब्रह्मप्र-
तीतिः सर्वैः कार्यपदार्थैरुत्पाद्या । विशेष्यमात्रस्य विवर्ततयो-
पादानत्वमद्वैते। विशिष्टस्य विशेषणगत परिणामद्वारोपादानत्व-
मस्मन्मते । यद्यपि विशिष्टदर्शनं वयं सर्वत्राभ्यस्यामः, तथापि
न ब्रह्ममयत्वप्रतीतिहानिः, तस्यैव प्राधान्येन प्रचुरत्वात् । अ-
प्रतीकदर्शनं चेदम् । प्रपञ्चस्य निष्प्रपञ्चीकरणमद्वैते । तस्यापि
ब्रह्मप्रचुरतानुभवो विशिष्टाद्वैते । सर्वस्य ब्रह्मात्मकत्वरूपस-
त्येन शेपे
6
प्रह्लादः यथा सर्वेषु भूतेषु सर्वव्यापी जगद्गुरुः ।
विष्णुरेव तथा सर्वे जीवन्त्वेते पुरोहिताः ॥' इति
 
मृतपुरो-
MPL Sastry Library Free Digitisation indoschipts.org
3
 
6
 
३३