This page has not been fully proofread.

३२
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
स्वभावोऽयम् यद्भावुकानामपि तुल्यरसतेति । रसरूपस्य
भगवतो रसस्यापरोक्षणे तत्तुल्यो रसोऽनुभूयेत तदनुग्रहेण
तत्प्रियत मैर्नित्यमुक्कैः ॥
 

 
यद्यत्पश्यामस्तत्र तत्र परमविशेष्यभूतं परमप्राणभूतं सत्-
सत्यात्मादिशब्दैरुपनिषद्भिरुद्घोषितं ब्रह्म प्राधान्येन वयम-
ध्यक्षयितु मस्तित्तज्जडाजडं चाप्राधान्येन । बोधे विशेष्यत्वं
ब्रह्मणः । जडसरं समाप्यान्ते 'वायुर्दोधूयते यद्यदयमुडुगणो
बम्भ्रमीति द्रुतं खे तेजो जाज्वल्यते यद्यदपि जलनिधिर्मा-
धव दोघवीति । भूर्यद्वा बोभवीति स्थिरचरमखिलं तच्च
तादृक्च सर्व स्वायत्ता शेष सत्तास्थितिय मनपरब्रह्मलीलोमिंच-
क्रम् ॥' इत्यद्भुतमुल्लिखितो जगद्विशिष्टब्रह्मानुभवो आचार्यैः ।
वेदान्ताचार्यो वृथा जडपदार्थस्वरूपं शोधयामास; नेदम-
भ्यात्मशास्त्रमिति मा मथाः । अस्मद्दर्शनरीत्यानुभवे सर्व ज
डम्, भगवतः सर्वाश्चर्यमयत्वमुपपाद्य तस्मिन्भक्तिं वर्धयेत् ।
तदर्थमेव भगवता भक्तियोगषट्के भूयो विभूतयः प्रादर्शि-
षत। 'गृह्यमाणे घटे यद्वन्मृत्तिका भाति वै बलात् । वीक्ष्य-
माणे प्रपञ्चेऽपि ब्रह्मैवाभाति मासुरम् ॥' इति सद्विद्यायाः
प्रयोजनं परिदृश्यमानसर्वजडाजड पदार्थस्य ब्रह्मप्रतीतिजनक ..
त्वमिति सुन्दरं प्रदर्शयन्ति श्रीशंकराचार्या: । 'यथा एकेन
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)
 
-