This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
स्वविषयम्'
 
इति । एतत्स्तोत्रलोकाः प्रायेण तत्सप्तमा
दृश्यन्ते । चेतःस्थितिमण्टपे संस्कारशिल्पिना लिखितानि
भावनामयावतारशिल्पानि विवेकः सुमतिश्च पश्यतो व्यव-
सायेन सह । भावनया अस्माकं चित्तभित्तौ पुरावृत्तावता-
ररूपान् लेखयितुं यथानुभवमुल्लेखनं क्रियते आचार्यैः । नि-
वर्तमाना भूमिका भावनाभूमिका: । 'भजास मनसि नित्यं
भूमिकां भावनाख्याम्' इत्याचार्याः पादुकां प्रत्यन्तिमपद्धतौ ।
किंचिदूनसहस्रलोकै र्मुहूर्तकालं निबिडं निपुणं भाविता पा
दुका भावुकाचार्यमनास स्वभूमिकामातनोती त्याचार्यानुभव: ।
तादृशोऽनुभवोऽष्माभिरपि संपाद्येत, यदि वयमाचार्य-
-
श्लोकान्प्रत्यहं जल्पन्तस्तदर्थं च भावयेम । स्वभा-
वितानवतारानस्माननुभावयितुमेवाचार्यप्रयत्नः ।
6 शुभमा-
तनोतु' इति प्रार्थना शुभविग्रहमस्माकमाविष्कारयतु '
इत्यप्याभत्रैति । कथमध्यक्षणमात्रेण ब्रह्मानन्दो ऽस्मदानन्दो
भवेत् ? एकेनानुभूयमानस्य दर्शनेन कथं द्रष्टुस्तदानन्वः ?
ब्रह्मानन्दोऽन्यूनातिरिकं नित्यमुकैर्लभ्यत इति वयमभ्युपग-
च्छामः । जीवब्रह्मणोरानन्दस्य साम्ये तयोरप्यैक्यं नियतमि-
त्याक्षिप्येत । शारीरकशास्त्रार्थदीपिकायां श्रीमद्रङ्गरामानुज-
मुनिभिरानन्दस्य स्वकीयत्वमनपेक्षितमिति वर्णयन्ति । रसस्य
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)
 
6