This page has not been fully proofread.

श्रीमद्वेदान्तदेशिकस्तोत्राणि
 

 
इति संस्कारः । 'परिचय महिमानं प्राप्य सञ्जातभूमा दिवि
पदनुविधेयो दिव्यसंस्कारशिल्पी । व्यलिखदनघरूपं विश्व-
मेतद्यथावाच्चरगतमपि दृश्यं चिन्तनाचित्रभित्तौ ॥ इति
व्यवसाय: संस्कारस्यालेखनकौशलमभिष्टौति । चिरगतस्या-
प्यवतारस्य वर्तमानत्वप्रतीतिप्रकारो वर्ण्यतेऽनन्तरश्लोके तेन
'प्रमाणप्रत्ययादत्र कल्पितान्यविकल्पतः । अपि भूतानि भावनि
भवन्तीव भवन्ति नः ॥' इति । भावनयैव चित्तभित्तौ लि.
रूयन्तेऽवताररूपाणि । अतीतान्यवताररूपाण्यतीतविषयिण्या
भावनया लिख्यन्ते । भविष्यत्कल्किरूपं त्वागामिविषयिण्या
भावनयेति विशेषः । भगवदनुग्रहेण सन्तोषेण आन्तरमा-
वनामात्रेण विरच्यते इदमवताररूपशिल्पम् । यथाह विवे
कः- 'नैतद्वायैस्तूलिकावर्णकाद्यैः क्लृप्तं चित्रं किं तु
सन्तोषलिप्ताम् । नानाकारां भावनामेव शिल्पी शिल्पव्या.
जान्नूनमखोज्जगार ।' इति । 'यमेवैष वृणुते तेन लभ्यस्तस्यैष
आत्मा वृणुते तनूं स्वाम्' इति श्रुतिमनुसृत्य भगवदवतार-
तनुर्भगवदनुग्रहेणैव चिन्तायां लिख्येत । 'हृदि मुग्धशिख-
ण्डमण्डनो लिखितः केन ममेष शिल्पिना ॥ इति प्रश्न-
स्योत्तरं दीयते आचार्यैः सङ्कल्पसूर्योदये : अखण्डब्रह्माण्ड
प्रथमतरशिल्पी स भगवान्स्वयं पद्माजानिर्व्यालिखदिह चित्रं
 
-
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)