This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 

 
ब्रह्मन्का-
मद्वरवरमुनयो बकुलभूषणान्तादिगाथाशतके ।
लान्तरकृतं तत्कार्लानं कथं भवेत् । यत्कौमारे हरिकृतं जगुः
पौगण्डकेऽर्मकाः ॥' इति परीक्षिता पृष्ठः श्रीशुकोऽनन्तस्य
भगवतः कालोपाध्यतीतत्वं सदा वर्तमानस्वभावत्वं साक्षादप-
रोक्षत्वं च स्मरंस्तदनुभवे मग्नो विसस्मार श्रोतारं परीक्षित
कथकमात्मानं च । कृच्छ्राच्छनैलब्धबाहर्हशि: प्रत्याह
' सतां ह्ययं सारभृतां निसर्गो यदर्थवार्णाश्रुतिचेतसामपि ।
प्रतिक्षणं नव्यवदच्युतस्य स्त्रिया विटानामिव साधुवार्ता ॥
इति । स्त्रीचित्तानां स्त्रीमयानां विटानां प्रियस्त्रीविषयस्मरण-
वार्तादिना वृत्तानुभवोऽषि वर्तमान इव प्रतीत । तथा
ब्रह्मचित्तानां ब्रह्ममयानां ब्रह्मविदां वृत्तान्यपि तदवताररू-
पाणि बर्तमानवदनुभूयेरन् । दूरस्थितकामिनीविषयपुरावृत्तस्य
वर्तमानत्वानुभवो नियतं भ्रमात्मकः, तद्वृत्तान्तस्य वर्तमान-
त्वाभावात् । भगवतस्तु सदा वर्तमानत्वात्तदनुभवो नावश्यं
भ्रान्तिः स्यात् । अवताररूपाणां भावनाजन्यसंस्काररूपेण
शिल्पिना चिन्तनारूपचित्रभित्तौ आलेखनीयावतार प्रसादेन
सम्यग्लेखनं सुशकमित्याचार्या: प्रदर्शयन्ति सङ्कल्पसूर्यो
दयसप्तमाङ्के । ' विदुषश्चिन्तनां शक्त्या चिवभिातं
वितन्वता । शुद्धाशुद्धविभागार्ह विश्वं विलिखितं मया ॥"
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)
 
२९.