This page has not been fully proofread.

श्रीमद्वेदान्तदेशिकस्तोत्राणि
 

 
शनशब्दयोः पञ्चतापादनेन दुःखनिवृत्तिः खल्वर्थः । वज्र-
सारीकृतकुसुमशरविद्धानां कामाग्नितप्तानां पञ्चता सुखाय
भवेत् । मूर्च्छावस्थाया उपकारकत्वं वर्ण्यते शोकव्यथिता-
नाम् ' मोहेन संस्तम्भयतेन्द्रियाणाम् । अज्ञात भर्तृव्यसना
मुहूर्त कृतोपकारेव रतिर्बभूव ।' इति । मलयपवनादेः
कामाग्निसंधुक्षकत्वं कविसमयसिद्धम् । मदनतापः शीतवा-
तेन न शाम्येत् । अनेनैवाभिप्रायेण 'अङ्गमनङ्गतप्तम्' इति
तुल्यं शब्दं प्रयुञ्जाना: 'न यमुनासलिलकणबाहिशीतलपव-
नेन गोपिका मदनतापशान्तिमीयुः । किंतु यमुनासिकत-
स्थासु कृष्णपदपङ्किषु निजमङ्गं विन्यस्य तापशान्तिमीषुः '
इत्यूचुः । यदुक्तं कविना 'द्वारेऽस्य पाण्डुसिकते पदपङ्कि-
श्यतेऽभिनवा । ' इति तस्मिन्प्रकरणे, तदपि स्वीकृतं श्रीव-
त्साङ्कमिश्रैः । यावान्बहुमानो दुष्यन्तस्य शकुन्तलापदपकौ,
वावांस्तदधिको व्यामोहो गोपिकानां कृष्णपदपङ्किषु । इत्थं
भिन्नकालत्वं शोचन्ति ते । श्रीवकुलभूषणा अतीतानवतारा-
ननुभवितुं तीव्रोत्कण्ठां प्रदर्शयन्ति वटतलशयितशिशुः
सप्तलोकीं निगीर्येत्याधासु गाथासु । शिशुत्वादिविशिष्टं
भगवन्तमनुबुभूषोर्वकुलभूषणस्य इन्दुं करस्थं काहद्भिः
शिशुभिस्तौल्यं संपद्यत इवेति चारु व्यञ्जयन्ति श्री-
२८
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)