This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
२७
 
तदुच्यते ' निर्वर्तयन्भूमिकां रङ्गे धामनि' इति । नटस्म
रङ्गं कुलधनं यथा तस्य नाट्यविद्या कुलविद्येति गणदासः ।
नटस्य रामस्य कुलधनं स्याद्रङ्गम् । अत एव 'रामादीनां
कुलघनमिदं रङ्गतां याति रङ्गम्' इति ॥
 
' हा हन्त हन्त भवतश्चरणारविन्दद्वन्द्व कदा नु भविता
विषयो ममाक्ष्णोः । योऽहं निरर्गलावनिर्गलदन्धकारैवृक्षैस्तृ-
नैश्च सुलभं समयं व्यतीतः ॥ ' इति श्रीवत्साङ्कमिश्रा: कोस-
लजनपदस्य कृत्स्नतृणवृक्षपशुपक्षिमनुष्यादिप्राणिसामान्यमो-
क्षेण समयातीतत्वं शोचन्ति । कृष्णावतारे राससमये यमु-
नापुलिनसिकतभावालाभं च शोचन्ति । 'हा जन्म तासु
सिकतासु मया न लब्धं रासे त्वया विरहिताः किल गोप-
कन्या: । यास्तावकीनपदपङ्किजुषोऽजुषन्त निक्षिप्य तत्र
निजमङ्गमनङ्गतप्तम् ॥' इति । इन्दोः शीतरराश्मत्वं विरहि-
जनेष्वयथार्थम्, यस्मादिन्दुस्तेषु हिमग र्मयूखैराग्मं विसृजती-
'त्युक्त्वानुपदमेव ' शक्यमरबिन्दसुरभिः कणवाही मालिनीत-
रङ्गाणाम् । अङ्गैरनङ्गतप्तैरविरलमालिङ्गितुं पवनः ॥" इति
शैत्यसौरभ्यादियुक्तपवनस्यानङ्गतापशमनत्व मवर्णयन्महाकविः ।
'पद्मसौगन्धिकवहं शिवं शोकविनाशनम् । धन्या लक्ष्मण
सेवन्ते पम्पोपवनमारुतम् ॥' इति श्लोकस्य शिवशोक विना-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)