2023-02-20 21:34:54 by ambuda-bot
This page has not been fully proofread.
२६
श्रीमद्वेदान्तदेशिक स्तोत्राणि ।
वासुदेवः' इत्युक्त्वानन्तरम् 'अहं च वासुदेवः' इत्याशङ्का-
निरासकचशब्दपूर्वकमात्मनो
'यस्थ
वासुदेवात्मकत्वं वदति । नाहं
मत्प्रकारो मनिष्ठो मदात्मकः । अहमित्युक्ते मत्प्रकारं ब्रह्मे-
त्येव शास्त्रीयो बोधोऽनुभवश्च न्याय्यः । चिन्तितनिमिषित -
सर्वचेष्टितानि तेनैव निर्वर्त्यन्त इति सदा भाव्यम् ।
नाहंकृतो भावः' इति गीतावचनमनुसृत्याहंकृतत्वबुद्धि नि-
रस्य ब्रह्मकृतत्वबुद्धिः परिचेया । यथानेककोट्यवयवविशिष्टै-
कदेहिन एकत्वेनानुभवः सुलभः सहजश्च तथा विश्वदेहिन
एकत्वानुभवं परिचिनुयाम । 'दृष्टिं ज्ञानमयीं कृत्वा पश्ये-
द्ब्रह्ममयं जगत् । सा दृष्टि: परमोदारा न नासाग्रावलोकिनी ।'
इति श्रीशंकराचार्याः ॥
'ब्रह्मस्वभावो हि प्रपञ्चः, न प्रपश्चस्वभावं ब्रह्म ।' प्र-
पञ्चगत जाड्यपरिमितत्वदुःखरूपत्वादीनि न ब्रह्मणि । ब्रह्म-
स्वभावभूतानुकूल्यानन्दत्वे प्रपञ्चस्य निजं वास्तवं रूपम् ।
तव्यक्तीकरणे सर्वस्याप्यानन्दमयत्वेनैकरस्थं भवेत् । तदयं
सर्वदास्माभिर्विशिष्टैकब्रह्मानुभवोऽभ्यसनीयः । 'सर्वस्याप्या-
नुकूल्यं स्वत इह जगतो वासुदेवात्मकस्य व्यक्तिं तन्मुक्ति-
काले भजति' इत्याचार्या: । अवताराणां भूमिकात्वेन रूपणे
ने तत्परिग्रह उचितः । श्रीरङ्गे दशावतारमूर्तीः पश्यामः ।
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)