This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
२५
 
•षेधगम्यत्वेन बोधयति ॥
 
सूत्रकारश्च कार्यस्य कारणानन्यत्वं सूत्रयति, नैक्यम् ।
फलदशायां चाविभागमेव प्रतिजानीते 'अविभागेन दृष्टत्वात्'
इति, नैक्यम् । 'तनिष्ठस्य मोक्षोपदेशात्' इति सन्निष्ठां
मोक्षोपायतया सूत्रयति । स्वमात्रविश्रान्तिरूपस्वनिष्ठता न
मोक्षप्रापिका । कृत्स्नस्य चिदाचित्प्रपञ्चस्य तदन्तर्गतस्य स्व.
स्यापि ब्रह्ममयता भावनीया अभ्यसनीया सात्मीकार्या च ।
तादृशानुभवः प्रमा । पृथक्त्वानुभवो भ्रमः । प्रपन्नश्च ब्रह्म-
मयतां प्रपन्नः स्यात् । ' त्वां चिन्तयंस्त्वन्मयतां प्रपन्नः '
इति वदन्त आचार्या एतत्सूचयन्तीव । शास्त्रेणैतदात्म्यमिदं
सर्वमित्युक्ते स्वव्यतिरिक्तस्य सर्वस्य ब्रह्मापृथक्त्वं झटित्य-
भ्युपगच्छामः तदपृथक्त्वस्यास्मत्प्रत्यक्षानुभवाविरुद्धत्वात् ।
अस्माकं तदपृथक्त्वे न तूर्ण विश्वसिमः, पृथक्त्वाभिमान-
स्यास्माकमत्यन्तदृढत्वात् । शास्त्रवासनया सुदृढश्रद्धया दृढा-
भ्यासेन च स्वपृथक्त्वबुद्धिर्व्यपोह्येत । अत एव श्रुतिः
प्रथमं सर्वस्येदम ऐतदात्म्यरूपं सदात्मकत्वमुपदिश्यान्ते
'तत्त्वमसि' इति संबोध्यशिष्यस्यापि सदात्मकत्वं बोधयति ।
स्वपर्यन्त मैतदात्म्यानुभवे कृत्स्न प्रपञ्चस्य तदात्मकता अनुभवा-
रूढा भवेत् । एतत्क्रमेणैव भगवान् धर्मराजः 'सकलमिदं
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)