This page has been fully proofread once and needs a second look.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 

ष्टब्रह्मानुभावनं चेत्यस्मिंस्तोत्रे आचार्यैः सम्यक्प्रदशर्यत इति

प्रदर्शयिष्यते। तत्त्वप्रदर्शनमवतारकृत्यम् । जगन्नियन्तृ जग-

द्विशिष्टं निरतिशयबृहद्रयैब्रह्मैकमेव तत्त्वमित्यवतारैः सकललो-

कसाक्षिकं प्रदर्श्यते ॥
 
२४
 

 
यत्किंचिद्विशेषमात्रावेविशिष्टानुभवः खण्डानुभव: स्यात् ।

सर्वविशिष्टस्य कथं खण्डत्वम् । सर्वविशेषविशिष्टं कथमनु-

भवपथं गच्छेदिति चेत् - सर्वविशेषाणां ब्रह्मकार्यत्वशेष-

त्वाद्यनुगतैकाकारेणेति ब्रूमः । एवमेवैकब्रह्मज्ञानेन सर्ववि-

ज्ञानसमर्थनं श्रुत्या । सद्विद्याप्रतिपाद्यस्य कारणस्य यथाक-
थाँ

थं
चिद्विशिष्टत्वमेव सर्वैरभ्युपगम्यत इति चारु प्रदर्श्यते

आचार्यै: 'मायोपाधिस्वशक्तिव्यतिकरितपरब्रह्ममूल: प्रपश्ञ्चो

येषां तेऽप्यद्वितीय श्रुतिमवितथयन्त्यत्र तत्तद्विशिष्टे । अप्रा-

धान्यात्तथा नः प्रकृतिपुरुषयोरन्तरात्मप्रधाने वाक्येऽस्मिन्स्थू-

लसूक्ष्मान्वय इति जगतोऽनन्यभावोपपत्तिः ॥' इति श्लोके ।

विशिष्टानुभव आवर्तनीयों निरन्तर मन्यूनपूर्णोपासनलाभाय ।

प्राप्यानुभवो विशिष्टः । 'यदेवेह तदमुत्र यदमुत्र तदन्विह'

इति श्रौतप्रदर्शनमनुसृत्य प्राण्प्यानुभवो यथाशक्त्यत्रैवाभ्यसि-

तुमुचितः । द्वितीयादर्शनं वदन्त्री श्रुतिः 'न ततोऽन्यद्विभ

क्त
मस्ति यत्पश्येत्' इति द्वितीयविभक्तपदार्थस्याभावं नि
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)
 
-