This page has not been fully proofread.

दशावतारस्तोत्रव्याख्यौँ ।
 
आत्मशब्दो नियन्तृचेतनवाची । शरीरशरीरिभावेन तयोः
सामानाधिकरण्यं समर्थ्यते न्यायामृततरङ्गिण्याम् । कृत्स्नस्य
जगतोऽस्माकं च स्वात्मकत्वं निरस्य भगवदात्मकत्वेन तद्-
पृथक्त्वेन तदद्वैततया अद्वैतानुभवोऽस्माभिः सततमभ्यस-
नीयः । आरम्भणाधिकरणोक्तानन्यत्वं ब्रह्मव्यतिरेकेणाभाष
इति श्रीशाङ्करभाष्ये । 'अनन्यत्वमिति नाभेदं ब्रूमः, किं
तु भेदं व्यासेधामः' इति तद्धिकरणभामत्य भेदेऽरुचिं
कण्ठरवेण ब्रवीति । 'अनन्याश्चिन्तयन्तो मां ये जनाः
पर्युपासते' इति श्लोकभाष्ये 'पर्युपासते सर्वकल्याणगुणा-
न्वितं सर्वविभूतियुक्तं मां पंरित उपासते अन्यूनमुपासते '
इति भाषितम् । 'अन्यून मित्य खण्डित गुण विभूतिकमित्यर्थः
इति चन्द्रिका । इममखण्डार्थम खण्डानुभवं च वयं रोचा-
महे । विशिष्टस्याद्वैतेनानुभवमभ्यसिषिषामो न बिशेष्यमात्रस्य
निर्विशेषाद्वैतम् । ' एवं धर्मान्पृथक्पश्यंस्तानेवानुविधावति'
इति कठवल्ली धर्माणां विशेषणानां ब्रह्मणः पृथग्दर्शनमनर्थ-
हेतुतया निन्दति । विश्वस्य भगवच्छरीरत्वं तदन्तस्थत्वं च
प्रत्यक्षं निदर्शितमर्जुनस्य निजैश्वररूपदर्शनेन भगवता । य-
यपि न तावन्मात्रमैश्वररूप प्रदर्शनमवताररूपेषु सर्वेषु, यथा
विश्वरूपे, अम्त्येव तत्रापि ब्रह्मत्वप्रदर्शनं नियाम्यजगद्विशि-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)