This page has been fully proofread once and needs a second look.

२२
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 

इति गीताश्लोकभाष्ये 'बहुधा पृथक्त्वेन जगदाकारेण

विश्वप्रकारमवस्थितं मामेकत्वेनोपासते । एतदुक्तं भवति-

भगवान्बावासुदेव एव नामरूपविभागानर्हातिसूक्ष्मचिदचि-

द्वस्तुशरीरः सन् सत्यसंकल्पो विविधविभक्तनामरूपस्थूलचि-

दचिद्स्तुशरीर: स्यामिति संकल्प्य स एक एव देवतिर्यायङ्मनु-
ब्

ष्
यस्थावरान्तविचित्रजगच्छरीरोऽवतिष्ठत इत्यनुसन्दधानाश्

मामुपासते' इति भाषितम् । तादृशसर्वप्रकारविशिष्टै कब्रह्म-

णोऽनुसन्धाने वासुदेव मन्त्रस्य तात्पर्यमिति तात्पर्यचन्द्रिकायां

प्रदर्शितम् । अत एव भगवता 'वासुदेवः सर्वमिति प्रपद्यते'

इत्युक्तमिव । सर्वविशिष्टैक
विशेष्यब्रह्मज्ञानं सम्यग्दर्शनम् ।

तादृशज्ञानेनैकरसता, शान्तिश्च सम्यक्सिद्धचेयेतामिति शा-

ण्डिल्यश्रुतिः स्पष्टं ब्रवीति । सर्वभूतानां ब्रह्मात्मकत्वेनानु-

सन्धानं सर्वत्र समदर्शनमावति, मिवात्रामित्रकथां कथाशे-

षतां नयंतीत्यशेषसाधूपमानभूतप्रह्लादस्यानुभवः । जगतो

ब्रह्मशरीरत्वं श्रुतिः श्रावयतीति न केऽपि विप्रतिपद्यन्ते ।

शरीरत्वं चान्तः स्थितेन ब्रह्मणा नियाम्यत्वरूपमिति ' यः

पृथिव्यां तिष्ठन् पृथिवीमन्तरो यमयति यस्य पृथिवी शरी-
रम

रम्
' इत्याद्यन्तर्यामिब्राह्मणे स्पष्टं श्राव्यते । परमात्मनियाम्यं

कृत्स्नं जगदिति सर्वेऽभ्युपगच्छन्ति । शरीरप्रतिसंबन्धी
 
,
 
-
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)