This page has been fully proofread once and needs a second look.

दशावतारस्तोत्र व्याख्या ।
 
२१
 
9
 
' जगत्सर्वे शरीरं ते' इति प्राचेतसगुरोर्ब्रह्मणो वचनं वर्ण्यते

प्राचेतसेन रामाभिधानं हरिं प्रति । 'तत्रैकस्थं जगत्कृत्स्नं

प्रविभक्तमनेकधा। अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥
'
इति भगवतो विश्वरूपे कृत्स्नं विश्वमर्जुनो ददर्श । शिशोः

कृष्णस्य वक्त्रे विश्वं ददर्श यशोदा । सार्वात्म्यविशिष्टभग-

वदैकात्म्य प्रत्यय प्रत्ययसारैर्मुमुक्षुभिर्भवितव्यम् । तथैव तैः सदा अनु.

सन्धानं कार्यम् । 'ऐकात्म्यप्रव्ययसारं शान्तिसमृद्ध ममृतान-

न्दम्' इति माण्डूक्योपनिषद्विशिष्टैकात्म्यानुभवेनैकरस्यं बो-

धयति । इदमेव विशिष्टाद्वैतदर्शनं भवति । 'अशेषचिद-

चित्प्रकारं ब्रह्मैकमेव तत्त्वम्' इति वदन्त आचार्या एतदेव

तत्त्वदर्शनं विद्धति । ' पृथक्त्वेन तु यज्ज्ञानं नानाभावा-

न्
पृथग्विधान् । वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥'

इति पृथक्त्वज्ञानं भगवता राजसत्वेन जगहेंर्हे । 'सर्वभूतेषु

येनैकं
कं
भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं

विद्धि सात्त्विकम् ॥" इति सात्त्विकज्ञानं लक्ष्यते भगवता ।

तदेव सम्यग्दर्शनं स्यादिति भगवन्मतम् । तच्च जगद्विशिष्ट-

ब्रह्मण एकत्वेन ऐकात्म्यप्रत्ययसारतयानुभवः स्यात् । एतस्य

श्लोकस्यैव मर्थवर्णनं शक्यम्। 'ज्ञानयज्ञेन चाप्यन्ये यजन्तो


मामुपासते । एकत्वेन पृथक्त्वेन बहुधा विश्वतो मुखम् ॥'
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)