This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
परोक्षितं स्यात् । कारणत्वविशिष्टं तदुपलक्षितं वा ब्रह्म
जिज्ञास्यत्वेन विहितम् ' तद्विजिज्ञासस्व' इति । तादृश-
स्य ब्रह्मणो ध्येयत्वं विहितम् 'कारणं तु ध्येय:
इति । उभयविभूतिविशिष्टं ब्रह्मैव फलदशायामनुभाव्यम् ।
' सर्व खल्विदं ब्रह्म तज्जलान्' इति शाण्डिल्य श्रुतिः
कृत्स्नस्य जगतो ब्रह्मात्मकतयानुसन्धानमुपदिशति तज्जला-
निति हेतूपन्यासपूर्वकम् । दहरविद्या यद्यप्यन्तःकलेबरं
सुसूक्ष्मं दहराकाशमन्वेष्टव्यत्वेन विदधाति, 'उभे अस्मिन्
द्यावापृथिवी अन्तरेव समाहिते' 'यावान्वा अयमाकाशस्ता-
वानेषोऽन्तर्हृदय आकाशः' इत्यादिना तस्य निरतिशयबृहस्व-
मपि कथयति । श्रीशंकराचार्याश्च तदधिकरणमाध्ये 'अस्मि-
न्कामाः समाहिताः, एष आत्मापहतपाप्मा' इति हि प्रकृतं
द्यावापृथिव्यादिसमाधानाधारमाकाशमाकृष्य 'अथ य इहा-
त्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान्' इति समुच्चयार्थेन
चशब्देनात्मानं कामाधारमाश्रितांश्च कामान्विज्ञेयान्वाक्यशेषो
दर्शयति । तस्माद्वाक्योपक्रमेऽपि दहर एवाकाशो हृदयपुण्ड-
रीकाधिष्ठानः सहेवान्तस्थैः समाहितैः पृथिव्यादिभिः स
त्यैश्च कामैर्विज्ञेय उक्त इति गम्यत इत्यभाषिषत । कृत्स्नवि-
शिष्टब्रह्मण उपासनं तेषां संगतम् । विशेषणत्वबाधेयत्वादि-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)
 
१०