This page has been fully proofread once and needs a second look.

श्रीमद्वेदान्तदेशि कस्तोत्राणि ।
 

जोराशेर्भगवत्प्रभाया वक्षःस्थलविद्योतमानाया अजिनमात्रेण

वैरोचनसदसि संवरणं चात्यन्तदुर्घटम् । दम्पती दिदृक्ष्ये-

यातां भक्तजनैः । तद्दृष्टिगोचरीभवनं मुख्यं प्रयोजनम् ।

इतरदसुरनिरसनादिकं तदानुषत्रिङ्गिकं चशब्दसंगृहीतम्। ' श्रियं

लोके देवजुष्टामुदाराम्' इति श्रुतिश्चान्वर्थनीया । यथा वै-

कुण्ठे परे लोके श्रिया सार्धममेयात्मास्ते, तथास्मिन्नवरे

मानुषे लोके देव्या सह मेयात्मामेयात्मा चावतरति । करुणा

खल्ववतारे निमित्तम् । अवतारकार्यं कृत्स्नं करुणाकार्यम् ।

तच्
च करुणामिव रूपिणीं तां विना न घटेत ॥
 

 
१८
 

 
अस्मिंस्तोबेत्रे आचार्यैर्मुख्यतया प्रतिपिपादयिषितं किमिति

चेदवतारभूमिकानामपि ब्रह्मवद्बृहत्त्वम् । सशैलवनकाननार्ण-

वस्य जगतो ब्रह्मशरीरत्वेन तच्छरीरैकदेशत्वेन च प्रदर्शनं

ब्रह्मणो बृहत्त्वमुपपादयेत् । यदि ब्रह्मणो भूमिकानामेव वा-
खा

ङ्म
नसातीतं बृहत्त्व मध्यक्ष्येत किमु वाच्यं भूम्रस्तस्य निरति-
शयवृ

शयबृ
स्खे । मझत्त्वे। ब्रह्मलक्षणवर्णनशब्दैर्निरतिशयबृहत्त्वमुपलक्ष्य-

मिति भाषितम् ।यदा लक्ष्यं ब्रह्मैवावतरति तेनापि

निरतिशयबृहत्त्वावोपलक्षणं न्याय्यम् । कृत्त्रस्नस्य जगत-
स्व

स्त
दाधेयत्वतच्छेषत्वतात्रयाम्यत्वान्नियाम्यत्त्रानां सकलमनुजनयनविष-

यतया प्रदर्शनेन विश्वस्य शास्त्राद्वगतं ब्रह्मशरीरत्वम-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)