This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
ऽप्यपराधी तत्र । नाप्यार्तः । आर्त्यपराधात्यन्ताभावे क्षमादया-
दिजीवितेन भगवता कथमात्मधारणं लभ्येत । तदला मेन क्षुधा-
र्तो भगवानार्तिभूयिष्ठामपराधभूयिष्ठां बह्नन्नवतीं भुवमवत-
रति । ताभ्यां संपन्नानाढ्यानस्मांश्च याचते तदनं क्षुभिवृ-
तये । तं चाभ्यागतं वयं सम्यगाराधयितुमर्हामस्त न्निकटेऽ-
स्मदार्तिनिवेदनेन 'क्षमस्व' इत्युक्तिपूर्वकमस्मदपराधसहस्रो-
पहरणेन च ॥
 
अवतरन्तं च देवं देवी छायेवानुगच्छति । यथा सूर्यस्य
देवी छाया, तथा 'सूर्यस्यापि भवेत्सूर्यः' इत्युक्तसूर्यसूर्यस्य
श्रीः छाया । यथा स नटो भवति तथा सा नटी भवति ।
यथा सर्वगतो विष्णुस्तथा चेयम् । यथा स सर्वयोनिषु ग-
च्छति तथेयमपि । तदपि व्यज्यत इव सर्वगतशब्देन ।
विभोर्विष्णोर्विभवपारमहस्तया सहैव । 'यस्या वीक्ष्य मुखं
तदिमितपराधीनो विधत्तेऽखिलं क्रीडेयं खलु नान्यथास्य
रसदा स्यादैकरस्यात्तथा ।' ब्रह्मचर्याश्रमस्थस्यापरिग्रहत्वनि -
न्धोऽपरिहार्यः । तथापि तां न जहाति । यत्तदाश्रमलिङ्गं
कृष्णाजिनं तेनैव विद्युद्दयोतवतीं वक्षःस्थलगतां तां संवृणोति ।
सर्वलोकस्य पश्यतो वामनेनाणीयसा त्रिविक्रमभवनं नाडु-
तम् । ब्रह्मचारिणः सपत्नीकत्वम्, निरतिशय दीप्तिमत्यास्ते-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)
2