This page has been fully proofread once and needs a second look.

१६
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि
 

 
G
 

कुत्स्थः कंसघाती मनसिजविजयी यश्च कल्की भविष्यन् ।

विष्णोरंशावतारा भुवनाईनहितकरा धर्मसंस्थापनार्था: पायासुर्मा

त एते गुरुतरकरुणा भारखिन्नाशयास्ते ॥' इति श्लोके ।

'यश्च कल्की भविष्यन्' इत्येतत् 'भाविन्या दशया भवन्'

' कल्कवाहनदशा कल्किन्' इति च तदवतरणवर्णनस्य

सुसद्दृशामिव । 'किं पात्रमन्नदाने क्षुधितं कोऽर्थ्च्यो भगवदव-

तारः । को भगवान्महेशः शंकरनारायणात्मैकः । ' इति

शंकराचार्याः प्रश्नोत्तर मालिकायाम् । अन्नस्य क्षुधितं

पात्रम् ।' आर्तार्तिपरिहरणेनैव करुणैकजीवितो भगवानात्मानं

धारयेत् । आर्तिपरिहरणेनैव तत्करुणाया लब्धावकाशता ।

सदा क्षुषिधिता बुभुक्षिता भगवद्दया । घस्मरत्वमपि तस्या

भवति । जगहूद्दुरितघस्मरा दयाशिरीशिरिता भगवदाशयाः । प्र

णमदपराधास्तद्दयायाः प्रियमन्नपानम् । आर्तिपरिहरणं च

तस्याः प्राणनम् । एतद्व्यज्यत इव श्रीशंकराचार्यैः क्षुधितस्या-

न्न
पात्रत्ववर्णनानन्तरं भगवदवतारस्यार्च्यत्वं निर्धारयद्भिः ।

यथा क्षुषिधिता अन्नं याचन्ते तथार्तजनेभ्योऽर्चा याचते भग-

वानस्मल्लोकमागत्य । अञ्जलिं याचमानः कश्चित्खलु सः ।

अहमनमहमन्नम्' इति सततगीयमानमुक्तर्गातया सङ्कीर्त-

नमात्रं क्रियते परमपदे । शाब्दस्यान्नस्यैव लाभस्तत्र । न को-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)
 
6