This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या
 
6
 
जयति कितवः कोऽपि कौमारहारी' इत्याचार्यैर्व्यज्यते । ।
ब्रह्म दासाः ।' दास्यं सर्वप्रकारेण भगवान्सर्वप्राणिनां करो-
तीति बहुधा विचित्रं प्रदर्श्यते भगवतैव गीतासु । अन्तरव-
यवेष्ववस्थायास्मासु स्वपत्सु वैश्वानररूपो भगवान्भुतमन्नं
पाचयति । बाह्यपाचका लोके भृत्यतया संपाद्यन्तेऽधिकम-
धिकं वेतनं प्रदाय । अयमन्तःपाचकः सर्वेषां प्राणिनाम् ।
ईदृशं स्वयं दास्यमाश्रितं भगवन्तं वीक्ष्य तद्विषये स्वयं दासा
भवन्ति तपस्विन इत्युच्यते ' स्वयं दासास्तपस्विनः' इति ।
एषोऽप्यर्थो वर्णयितुं शक्यः । सूक्ष्मदृष्टीनां तपस्विनां भगव-
स्कृतान्तर्दास्यादिव्यापारो दृष्टिगोचरो भवति । तद्दृष्ट्वा ते तस्य
स्वयं दासा भवन्ति । समुद्रशायिना भगवता स्ववासस्थानरू-
पसन्निकर्षवन्तं जलधिमधिकरणीकृत्य तत्र प्रथमं त्रयोऽवताराः
परिजगृहिरे। अतिनिहीनयोनिष्ववतार अधोग मनरूपावता-
रस्य काष्ठां निर्वहेत् । अगाधजलधाववतीर्णोऽतिदुःसाघमवत-
रणं निर्वर्तयेदित्युच्येत । प्रत्यवतारमजहद्भूमत्वं निरतिशयवै-
भवं च प्रदर्येतेऽस्मिन्स्तोत्रे ॥
 

 

 
मेघभूतेन भगवता निरवधिकरुणा भारखिन्न त्वेनावतीर्यत
इति चारु व्यज्यते श्रीमच्छङ्कराचार्यै भगवदवताविषयश्लोके ।
मत्स्य: कूर्मो वराहो नरहरिणपतिर्वामनो जामदग्न्यः का-
6
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)