This page has not been fully proofread.

श्रीमद्वेदान्तदेशिक स्तोत्राणि ।
 
6
 
रिमहं करोति विभुः । सर्वत्वाभावे कथं ब्रह्मत्वसंभवः ।
सर्वत्वनिर्वाहार्थ ब्रह्मणो दाशदासकितवत्वादिकीर्तनं श्रुत्या
तच्च सामानाधिकरण्यमंशांशिभावेनेति स्पष्टमुच्यते बादराय-
मेनांशाधिकरणप्रथमसूत्रेण । तावता तादात्म्यरूपसामानाधि-
करण्यं नोपपाद्येत । तादृशं च सामानाधिकरण्यं समर्थ्यते

मनिकूर्मवराहाद्यात्मतयावतर्णित्वेन । अवतारभूतमीनादिदे-
हेषु न भगवता जीवेनात्मनानुप्रवेशः । न स्वांशभूतजीवद्वारा,
किं तु साक्षात्पूर्णेन स्वेनैव । विहारखाच्छन्यादिति यदुक्तं
बोध्यते 'देवो नः' इति देवशब्देन । तिर्यग्भवनस्यातिनि-
हनित्वाहुर्घटत्वाच तद्भूट्यते प्राथमिकैस्त्रिभिरवतारैः । ब्रह्म
दाशा' इति श्रुतिर्विस्मयते भगवतो दाशसामानाधिकरण्यं
बीक्ष्य । तिष्ठतु दाशैः शरीरशरीरिभावादिना तान्त्रिकं सा-
मानाधिकरण्यं मुख्यममुख्यं वेति वितर्कितं वादिभिः । तैर्दा-
शैर्जीलैगृह्य माणस्ततोऽपि निहीनो मत्स्य एव भवानि, तद्यो-
निना मुख्यमविगीतं सामानाधिकरण्यं लभेयेति प्रथमं मत्स्यो
भवतीव भगवान् । दाशानां मत्स्यमांससततसंसर्गेण दुर्ग-
न्भवत्त्वं तन्निहीनत्वे हेतुः । संसर्गेण तन्निहीनतापादक मत्स्य
एव भविताहमिति भगवदिच्छा प्रादुर्भवति । 'ब्रह्म कितवाः'
इति श्रुतिः स्वयं मुख्यकितवोऽपि भवतीति 'गोपस्त्रीणां
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)