This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या ।
 
रूपस्वभूमा न त्यक्ष्यत इति बोध्यते । विभुर्विष्णुः खल्वबत-

रति स्वं स्वभावमविहायाय । भूमा च स्वस्वभावः । विष्ण्वव-

तारे तद्वैभवमण्यवतरति । अन्यथावतीर्णो न विष्णुः स्यात् ।

'वरये वैष्णववैभवावतारम्' इत्यतिमानुषस्तवप्रथमश्लोके

श्रीवत्साङ्कमिश्रैर्भगवद्वैभवस्यावतारो व्यज्यत इव । 'अनासी-

दद्दोषो जहदवधिषाङ्गुण्यमहिमा विहारस्वाच्छन्ध्याद्विभुरिह

दधानो विभवताम् । तिरश्चामप्येतैः कमठकिटिपाठनिपतग-

प्रकारैराकारैः परिवृबृढतमत्वं दृढयति ।' इत्याचार्याः सङ्क

ल्पसूर्योदये । सर्वैरुपसत्तुं योग्यं भगवन्तं दोष एक एव ना-

सीदेदिति व्यज्यते 'अनासीदद्दोषः' इति । अशेषशरण्यो

ऽपि न दोषशरण्यः । न दोषास्तस्मिन्शरणं लभेरन् । आस

न्
नेषु दोषं मृष्येत् 'दोषो यद्यपि तस्य स्यात्' इति । आसी-

दन्तं दोषं तु न मर्षयेत् । न तस्य किमप्यननुकूवेदनीयं

हेयं भवति । लोके हेयभूता रोषादयोऽपि तस्य निःसीम-

शक्ते: सुनिरसविषये प्रीतये स्युः । विभोर्विष्णोर्विभवरूपाव-

तारो युक्त इति व्यज्यते 'विभुरिह दधानो विभवताम् '

इति । 'ब्रह्म परिवृबृढं सर्वतः' इति यास्कनिर्वचनं ब्रह्मश-

ब्दस्य । 'ब्रह्म ततमम्' इति श्रुतिः । तल्लक्षणसमन्वयार्
थं
स्वस्य परिबृढतमत्वं दृढयितुं तिर्यग्भूतसर्वप्राणिप्रकाराकारप-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)