This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
रूपस्वभूमा न त्यक्ष्यत इति बोध्यते । विभुर्विष्णुः खल्वबत-
रति स्वं स्वभावमविहाया भूमा च स्वस्वभावः । विष्ण्वव-
तारे तद्वैभवमण्यवतरति । अन्यथावतीर्णो न विष्णुः स्यात् ।
'वरये वैष्णववैभवावतारम्' इत्यतिमानुषस्तवप्रथमश्लोके
श्रीवत्साङ्कमिश्रर्भगवद्वैभवस्यावतारो व्यज्यत इव । 'अनासी-
दद्दोषो जहदवधिषाङ्गुण्यमहिमा विहारस्वाच्छन्याद्विभुरिह
दधानो विभवताम् । तिरश्चामप्येतैः कमठकिटिपाठनिपतग-
प्रकारैराकारैः परिवृढतमत्वं दृढयति ।' इत्याचार्याः सङ्क
ल्पसूर्योदये । सर्वैरुपसत्तुं योग्यं भगवन्तं दोष एक एव ना-
सीदेदिति व्यज्यते 'अनासीदोषः' इति । अशेषशरण्यो
ऽपि न दोषशरण्यः । न दोषास्तस्मिन्शरणं लभेरन् । आस
नेषु दोषं मृष्येत् 'दोषो यद्यपि तस्य स्यात्' इति । आसी-
दन्तं दोषं तु न मर्षयेत् । न तस्य किमप्यननुकूळवेदनीयं
हेयं भवति । लोके हेयभूता रोषादयोऽपि तस्य निःसीम-
शक्ते: सुनिरसविषये प्रीतये स्युः । विभोर्विष्णोर्विभवरूपाव-
तारो युक्त इति व्यज्यते 'विभुरिह दधानो विभवताम् '
इति । 'ब्रह्म परिवृढं सर्वतः' इति यास्कनिर्वचनं ब्रह्मश-
ब्दस्य । 'ब्रह्म ततमम्' इति श्रुतिः । तल्लक्षणसमन्वयार्थ
स्वस्य परिबृढतमत्वं दृढयितुं तिर्यग्भूतसर्वप्राणिप्रकाराकारप-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)