This page has been fully proofread once and needs a second look.

१२
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 

विग्रहस्य सकलमनुजनयन विषयीकरणं विना कथं विश्वममृ-

तप्लावनेनाप्यायितं भवेत् । कथं चाक्रूरमालाकारादिपरमभा-

गवतानां दृष्टिचिचात्तापहरणेन तद्भक्तिरूपधर्मवर्धनम् । अवता-

रितभक्तियोगरूपगीताया गीतेत्यसाधारणो व्यपदेशः । निरु-

पपदगीताशब्दो भगवद्गीतामभिदध्यात् । 'गीताः सुगीताः

कर्तव्याः' इति ऋषिवचनम् । गीतान्तराणामनुगीता, शिव-

गीता, श्रुतिगीता, भ्रमरगीता, गोपिकागीतेति सविशेषना-

मान्येव भवन्ति ॥
 

 
अवतारप्रशंसायां ब्रह्मणोच्यते ' को वेत्ति भूमन्भगवन्प-

रात्मन्योगेश्वरोतीर्भवतस्त्रिलोक्याम्' इति । तत्रावतरद्ब्रह्म

भूमन्निति संबोध्यते । अल्पप्रत्यर्थिनो विभुभूतभूम्नोऽल्पभूमि-

काभूतावतारवेषपरिग्रहः सर्वशक्तितिं विना दुर्घट इति तेन

संबोधनेन व्यज्यत इव । तदेव निपुणं प्रदर्श्यते आचार्यै:
'

'
यस्यासौ भजते कदाचिजहद्भूमा स्वयं भूमिकाम्' इति

स्वज्ञानप्रदात्रीं हयवदनभूमिकारूपाचार्य भूमिका भूमिकापरिप्रहीत्रीमा-

दिमां देवतामुद्दिश्य । तेजोमयस्य देवस्य विभोर्भूमिकापरि-

ग्रहः श्रमसाध्य इति प्रथमश्लोकपठितेन भूमिकाशब्देनाचार्या

व्यञ्जयन्तीव । 'अजहद्भूमा स्वयं भूमिकाम्' इत्यवतारेषु

सकमनुजदृश्यत्वाय भूमिकापरिग्रहेऽपि निरतिशयबृहत्व-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)