This page has been fully proofread once and needs a second look.

१०
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
भूमिकयास्य पुंसः । स्थाने विधास्यति विभुः स्थिरचिन्ह भेदं

क्रीडानट: स भगवान्कृपया स्वसाम्यम् ॥' इति । क्रीडानट

इति प्रथमान्तपाठ आचार्यसंमतः स्यात् ॥
 

 
यज्ञादिभगवदुत्सवान्तेषु वयं भगवन्तं यात्रायातान्सुजन-

निवहांश्च नाटकनाटनेन नृत्तगीतादिना चाराधयामः । 'दे-
बा

वा
नामिदमामनन्ति मुनयः कान्तं ऋतुं चाक्षुषम्' इति ना-

ट्योपाध्यायः । मुनयो भरतादयः । तच्च नाटधंट्यं बहुधा

भिन्नरुचेरपि जनस्यैकं समाराधनम् । अस्माभिर्विचित्रवि-

विधनाटकैराराधितः कृतज्ञसार्वभौमो देवः श्रिया सह वि.
-
विधभूमिकाः परिगृह्य नाटकानि निर्वर्तयति । 'देवानाम्
'
इति श्लोकपठितषष्ठ्यन्तदेवशब्दस्थाने एतत्स्तोत्रारम्भे प्रथमा-

न्तदेवशब्द इत्यवधेयम् । तत्र नाट्यजनितप्रीत्युद्देश्या देवाः ।

देवोऽत्र स्वयं नटन्मनुष्याणां सभ्यानां प्रीतिविधाता ।

'देवानाम्' इत्यस्य स्थानेऽत्र 'नः' इति । 'देवो नः' इति शब्दों
दौ
कालिदासश्लोकोक्तक्रमविपर्ययेण नटसभ्यान् प्रदर्शयत इव ॥
 
6
 

 
'नटवद्भूमिकाभेदैर्नाथ दीव्यन्पृथग्विधैः । पुंसामनन्य-

भावानां पुष्णासि रसमद्भुतम् ॥' इति यादवाभ्युदये । स

च श्लोक एतत्स्तोत्राद्यश्लोकस्यात्यन्तसदृशः । निर्भरत्वरूपप्र-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)