This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
११३
 
पलक्षित ब्राह्मणस्य यशस्तन्येत । शुभरूपावतारविस्तारणं य-
शोविस्तारणे पर्यवस्यति । यशोव्याप्तदिवसंख्या आतताव-
तारसंख्यासमाना ॥
 
1
 
जृम्भते । वर्धतेऽभिवर्धते च । देवो जृम्भत इत्युपक-
मोपसंहारावेकीकृत्य लभ्यते । वर्धते ऽभिवर्धते च देवः ।
तज्जृम्भणे रसो जृम्भेत ॥
 
जृम्भतामिदमाचार्यस्तोत्रम् । तद्रसश्च वर्धतामभिवर्ध
 
ताम् ॥
 
आचार्यरसविज्ञानं गोपालस्य कथं भवेत् ।
अवतीर्ण : साइसेऽस्मिन्बालोऽयं वीक्ष्यतां शुभम् ।
 
इत्थं गोपालदासेन वात्स्यवेङ्कटसूनुना ।
रचितं निगमान्तार्यस्तोत्रव्याख्यानमादरात् ॥
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)