This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
श्रीभट्टायें: 'भारत्या सहधर्मचाररतया स्वाधीनसङ्कीर्तन: '
इति । एतद्दशावतारस्तोत्राववक्षुव भारती सन्निधत्ते, श-
ब्दार्थज्ञानं सम्यक्तस्य दत्वा भगबदवतारांश्तेन सम्यक्स्ताव-
यितुम । स्वस्या अपि तत्स्तवनेऽन्वयः स्यादिति । श्वशुर
भगवतः स्तोत्रस्याज्ञकर्तृकपठनं सा न मृष्येत् । अतो यो
वा को वा जडोऽज्ञो एतत्स्तोत्रं विवक्षेत् तदिच्छाक्षण एव
सा तद्वके सन्निधत्ते तं ज्ञं कर्तुम् ॥
 
१११
 
बहुमुखी न चतुर्मुखी, यथा नाथमुखेषु । 'वहति
महिलामाद्यो वेधात्रयीमुखरैर्मुखैः' इति नाथमुखेषु चतुर्मुख-
त्वमेव । अत्र तदधिकमुखत्वम् । तावत्कुतूहलं तस्याः । वि-
द्योदन्वति कवौ जातेयं स्तोत्रसरस्वती । कथमेतां सरस्वती न
बहुमन्येत ॥
 
1
 
725
 
भक्तिः परा मानसे । यथा वक्त्रश्य सरस्वत्या शोभा,
तथा मनसो भक्त्या शोभेति व्यज्यते । भक्तिरहितं मनो
जडमुखवद्गर्हणीयम् । विद्योदन्वतीति भक्तिसागरे इत्यप्यभि-
प्रेतम् । वेदान्ताचार्यप्रयुक्तविद्याशब्दस्य भक्तिवाचकत्वं स्वर-
सम् । भक्तिसागरे जातस्यास्य स्तोत्रस्य विवक्षणे एतन्मातृ-
भूता भक्तिजलधिः परा भक्तिः स्वसुतं प्रकाशयितुमिच्छन्ती
मनसि नियतं सानुग्रहं सन्निध्यात् । मनसि खलु विवक्षा
 
Library Free Digitisation indoscripts.org (ISHT)