This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
१०९
 
स्तोत्रमवततु सुसांप्रतमिति व्यज्यते ॥
 
वेङ्कटेश्वरकवौ । कविर्भगवान् । कविरयं नटः । कवि-
नटभूमिकास्तोत्रं कवौ जातम् । 'अहिरेव हेः पादान्वि-
जानाति न संशयः ।' कविः कवेर्नटस्य भूमिका: स्तौति ।
कवेर्जनि कविः सम्यग्जानीयात् । युक्तमिदं देवेशस्यावतार-
स्तोत्रं वेङ्कटेश्वरो रचयामासेति ॥
 
कवौ जातं जगन्मङ्गलम् । यथा स्तुत्यः कविः स्रष्टा,
स्तोता कविरपि स्रष्टा । स्तुत्यस्य कवेः स्वेतरसृष्टिर्नियति-
कृतनियमवती सुखदुःखमयी । तस्य स्वावताररूपस्व-
सृष्टिस्तु नियतिकृतनियमरहिता स्वेच्छाभात्रनिर्वृत्ता हादक-
मयी । स्तोतुः कवेः स्वेतरसृष्टिस्तथैव ह्रादैकमयी । निरति-
शयहादैकमयमिदं स्तोत्रम् । कविरूपोदम्वति कविमतिमना
मथिते जातमिदं जगन्मङ्गलं स्तोत्रम् । यथा क्षीरोदधि-
मथने सर्वमङ्गला जाता, तथेदं जगन्मङ्गलं जातमेतदुद-
न्वन्मथने । यथा जातो भगवदवतारो जगत्कल्याणभूतस्त-
थेदं तज्जन्मस्तोत्रम् । यादृशं प्रतिपाद्यं भगवज्जन्म तादृशं
तत्प्रतिपादकस्य स्तोत्वस्य जन्म । 'देवो नः शुभमातनोतु
इति शुभातनन प्रार्थनाया मेतत्स्तोत्ररूपजगन्मङ्गलविस्तारणम-
प्यन्तर्गतमिव ॥
 
,
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)