This page has not been fully proofread.

१०६
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
मिति व्यज्यते । भावशून्यं स्वरनेत्राङ्गादिविक्रियारहितं ज
ल्पनमप्यलम् । 'जामदग्न्यस्य जल्पतः' इति भीष्मोक्तवत् ।
न रोषरामस्य शास्त्र प्रवचने स्वरनेत्राङ्गविक्रियादिसंभवः ।
तस्य रोषरूपविक्रियैकैव । नान्या विक्रिया ॥
 
पुरुषाः । पुरुषमात्रस्यैतन्नामजल्पनेऽधिकारः । नात्रा-
धिकारिव्यवस्था ।
 
पुनन्ति भुवनम् । पवित्रयन्ति भुवनम् । 'तत्रोपजग्मु-
र्भुवनं पुनानाः' इति सप्ताहावधिजीवितं परीक्षित मनुग्रहीतुं
श्रीभागवतं च श्रोतुमागतमहाभागर्षिसङ्घस्येव एषां भुवनपु-
नीतृत्वमिति तच्छब्दप्रयोगेण व्यज्यते । यथा ब्रह्माण्डः प-
विवीकृतो भगवद्बोणारवैरित्युक्तम्, तथैतेषां जल्पनैः पवि-
त्रीक्रियन्ते भुवनानीति व्यज्यते ॥
 
पुण्यौघपण्यापणाः । तत्तदवतारकथाश्रवणपठनादिभिः
कोटिकोटिपुण्यलाभः श्राव्यते तत्तत्फलश्रुतिभिरिति प्रसि-
द्धम् । दशावतारनाम्नां जल्पनेन तत्फलं कृत्स्नमेभिः सश्चितं
भवति । पुण्यपण्यसंभारोऽनन्त एषाम् । एते सञ्चरन्तः
पुण्यापणा: ; नैतेऽल्पपण्यापणाः, किं त्वोघपण्यापणाः ।
अल्पपण्यवणिजो द्रोणादिपरिमितप्रमाणैर्विक्रीणीयुः । एते रा-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)