This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
क्रीडावल्लव । कुहनागोप, मिथ्यागोप । देव इत्युप-
क्रमे व्यञ्जितस्य ऋडिनस्यात्र कण्ठोक्तिः ॥
 
१०५
 
6
 
कल्कवाहनद शाकल्किन् । कल्कीत्युक्तं तदवतारवर्णन-
श्लोके । कल्क इति कलङ्कार्थकः स्यात् । कलियुगेऽवतरन्
कल्की सकल्कः स्यात् । तव्यावृत्यर्थ कल्कशब्दस्य श्वेताश्व
इत्यर्थो वर्ण्यते । कल्करूपश्वेताश्ववाहनदशायामयं कल्की
भवति । नायं कल्करूपकलङ्कवान् । भाविन्यां कल्कवाह-
नदशायामयं कल्की । कथमसिद्धस्य भविष्यतः संज्ञाकर-
णम्, तस्य च संबोधनमिति चेत्, अस्य सूवस्य शाटकं
वय' इत्यादाविव भाविनीमवस्थामाश्रित्यापि संज्ञाकरणं सं-
भवेदिति बोध्यते । नायं प्रकार्यसिद्धः । प्रकारमात्रं भावी-
त्यपि व्यज्यते । कल्कवाहनदशायामयं कल्की भवति । तेन
प्रकारेणायं कल्की, नेतरथा दोषवत्त्वादिना । 'भाविन्या
दशया भवन्' इति वर्णनानुगुणोऽयं पाठः । कल्कवाहन
दशाकल्पिन्निति पृथक्पाठो वा । इतिशब्दस्याभ्यासस्तदा अ-
पेक्ष्येत । इति दशाकल्पिन्निति प्रत्यहं जल्पन्तः ॥
 
इति प्रत्यहं जल्पन्तः । न पूर्वोत्ततत्तदवतारविषयश्लो
कानां जल्पनमपेक्ष्यते । एतच्छलोकोक्ततत्तन्नामावलीपठनम-
प्यलम् । न सम्यङ्नामपठन मध्यपेक्ष्यते । तज्जल्पनमप्यल-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)