This page has not been fully proofread.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
यदृच्छाहरिः । हरिरपि रामो हनुमन्तं हरित्वेन संबोधयति
'यत्त्वयोपकृतं हरे' इति । तस्य हरिर्हनूमांस्तदापदुद्धारकः ।
नरत्वमधः कृतं नरहरिणैव । अतो हरित्वमात्रेण संबोधनम् ॥
 
रक्षाबामना आश्रितमिन्द्रम्, तच्छत्रुं बलिम्, उदा-
सीनं त्रिलोकं च ररक्ष । त्रीन् ररक्ष यथा तत्पादसलिलम् ।
सुहद्दुईदुदासीनत्रयाणामपि रक्षकत्वात्तस्य रक्षा असाधारणी
एष ह्येव वामनीः । सर्वाणि वामानि नयति । अयं वामनः
कथं रक्षकादन्यो भवेत
 
रोषराम । अस्य नाममांवं राम इति । विरुद्धमपि क-
चिन्नाम भवेद्यथार्कस्य महावृक्ष इति नाम । यौगिकार्बनि-
बन्धेऽयं अत्त्रविरामकरो रामः । रोष एवायं रमते '
अतो रोषरामः ॥
 
करुणाकाकुत्स्थ । नात्र लोकरामे रामशब्दः । जामद-
ग्न्यविषयप्रयुक्तरामशब्देन नास्थ तदनन्तरमेव संबोधनं
न्याय्यं स्यात् । काकुत्स्थ इति श्रीशाङ्करनामानुवादो वा ।
पारावारेत्यादिश्लोकः कृत्स्नोऽपि करुणाप्रतिपादकः ॥
 
हेलाहलिन् । हलिनो हेला युज्यत इति व्यज्यते ॥
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)