This page has not been fully proofread.

दशावतारस्तोत्र व्याख्या ।
 
१०३
 
वधेयम् । अध्यक्षितो भावुकैरिति यदुक्तं तदन्वर्थितम् ।
शुभमातनोत्विति प्रार्थितं फलितम् । भक्तानुजिघृक्षया प्रद-
र्शितडोलारोहविषयो दोहद इच्छाशब्देन प्रत्यभिज्ञाप्यते ।
अस्मदनुग्रहे दोहदस्तस्य, यथा गर्भिण्याः । वीक्षणैः प्रजा-
रक्षणं मत्स्यानां स्वभाव इत्युक्तम् । वीक्षणस्येच्छापर्यायत्वं
वेदान्तेषु । ब्रह्ममीनस्यास्येक्षणं सङ्कल्पार्थकम् यथा 'तदै-
क्षत बहु स्यां प्रजायेय' इत्यत्र ॥
 
,
 
विहारकच्छप । 'विहरते देवः सहैव श्रिया' इत्युक्त-
विहारप्रत्यभिज्ञापनम् । कूर्मस्य ध्यानम् । प्रत्याहारे स दृष्टा-
न्वीक्रियते । तस्य च कथंचिव्यञ्जनं विहारशब्देन ॥
 
-
 
महापांविन् । पूर्वोक्तपोत्रिशब्दस्यैव ग्रहणम् । पवित्र-
शब्दसन्निकृष्टत्वात् । मीनशब्दो दिव्यप्रबन्धप्रयुक्त शब्दपरि-
ब्रहाय । कच्छपशब्द: ' मत्स्याश्वकच्छप – ' इति शुको-
क्तानुवादाय । महच्छब्दो बृहत्त्वोपपादकः । तन्नाम्नम्त-
स्वस्य स्मारणेनेच्छासङ्ग्राहकबुद्धिग्रहणाय च । स्वबुद्धया
स्वेच्छयायं पोत्र्यभवत् ॥
 
यहच्छाहरे । यादृच्छिकात्प्रादुर्भव नादित्युक्तं स्मार्यते ।
यहच्छाप्रादुर्भूतोऽयं हरि: । हरिर्नियहरि: स्यात् । अयं
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)