This page has not been fully proofread.

दशावतारस्तो त्रव्याख्या ।
 
जनैरेव व्याप्येत । 'उत्खातलोकत्रयकण्टकेऽपि' इति राघ-
चस्य प्रथा लोककण्टकभूतरावण संहारेण । 'त्रिदिवमुद्धृतदा-
नवकण्टकम इत्यन्यदा दानवमात्रस्य कण्टकत्वम् । कलि-
युगान्ते नष्टप्रायत्वाद्धर्मस्याधरोत्तरत्वात्सर्वस्य निःशेषजनाः
कण्टकभिवेरन् । कृत्स्नकण्टकजनानां क्षतिः कार्येत श्वेताश्वा-
रूढेन निर्खिशधरेण भगवता । संहारः सृष्टिश्चोभयमपि प्रद-
इर्येतानेनावतारेण । लक्षणद्वय समन्वयस्तेनोपपाद्येत । संहा-
रोऽप्यनुग्रहे पर्यवस्येदिति निस्त्रिंशस्यापि मेघत्वम्, तेन च
धर्ममेघेन कार्तयुगधर्मबीजप्ररोहजनकत्वं च वर्ण्यते । अयं
चावतारो भावी, न वृत्त: । वृत्ता अवतारा अद्यापि सन्ति,
आराध्यन्ते च तत्तद्वर्षेष्विति श्रीभागवते प्रोच्यते पामस्क-
न्धे । 'रम्यके भगवतः प्रियतमं मात्स्यमवताररूपं तद्वंशपु-
रुषस्य मनोः प्राक्प्रदर्शितम्, स इदानीमपि महता भक्तियो-
गेनाराधयात' इत्यादिना । तादृशभक्तियोगं विनैव निर्भरत्वप्रप-
त्त्यारूढानां भावुकानामस्माकं भक्तिभराङ्गीकर्त्रा भगवता स्वयं
प्रत्यक्षवत्प्रदर्श्यन्ते वृत्तावताररूपाणीति प्रथमश्लोके व्यञ्जि-
तमाचार्यै: 'लब्धनिर्भररसैरभ्यक्षितो भावुकैः' इति ।
वृत्तावताराः सम्यग्वर्णिता महर्षिभिः । भविष्यदवतारोऽयम् ।
भूतावतार भावनाद्भाव्यवतारभावनं @िष्टतरं स्यात् ॥ ि
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)
 
"