This page has not been fully proofread.

९८
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
या या: शर्करा विषमा उद्धृतशिरमः स्युस्ता मर्चेरन्मार्गस
मीकरणार्थम् । एषोऽनुभवश्वारु प्रदर्श्यते आचार्यैरव । श्री-
शुकस्तदेवाभिप्रेयाय 'ममर्द खलदण्डधरोऽङ्घ्रिपातैः' इति ।
अघिणापि संमर्दनं क्रियेत तत्कर्मकरैः स्फटावाटिका
मार्गो भवति । स्फारत्वं मार्गत्रैशाल्यं द्योतयति । विशङ्कच-
ङ्क्रम —' ' पर्यायचर्या - इति विषमा उच्छिरसः शर्कराः
सङ्क्रम्यन्त इति सूच्यते ॥
 

 
यते । गच्छते नाथाय । अयं चर्या गच्छत्यस्मत्सुचर्या -
संपादनार्थमिति व्यज्यते ।
 
भाविन्या दशया भवन्निह भवध्वंसाय नः कल्पतां
कल्की विष्णुयशः सुतः कलिकथाकालुष्यक्लंकषः ।
निःशेषक्षतकण्टके क्षितितले धाराजलौघैध्रुवं
धर्म कार्तयुगं प्ररोहयति यन्निस्त्रिंशधाराधरः ॥
श्वेताश्ववदनः श्रीहयग्रीवः प्रथमावतारः । तेनोपक्रान्ता-
वतारनाटिका । कल्कः श्वेताश्वः । तद्वता कल्किनोपसंहियते ।
इदं चाचार्याणां परमभोग्यम् । धर्मसंस्थापनार्थमवताराः ।
धर्मेषु श्रेष्ठो कार्तयुगधर्मो निवृत्तिधर्मः । तस्य नितरां ग्लानि -
र्भवत्यस्मिन्कलियुगे। वर्धमाने कलौ क्षितितलं कृत्स्नं कण्टक-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)