This page has been fully proofread once and needs a second look.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
नुगतस्वरूपम्, ते विविधभूमिकाः परिगृह्य नटन्त एवासते ।
वयं नाट्येन भगवतो लीलारसमुत्पादयामः । सोऽत्रावतीर्य
भूमिकां परिगृ<flag>ह्ण्न्नटन्न</flag>स्मानुद्दिधीर्षति । अस्मदार्तिस्तमध आ-
नयति । अस्मदुन्निषया सोऽवतरति । कूपादिषु पतितान्
शिशूंस्तत्रावतीर्णः पित्रादिरुद्दिधीर्षति । 'कान्तां प्राप्य वि-
चित्रकर्मरचितां पर्यायतो भूमिकां केनाप्यद्भुतनाटकेन कमपि
श्रीमन्तमानन्दयन् । कृत्वा शास्त्रमुखे मनः प्रतिमुखं गर्भा-
वमर्शात्परं विद्यानिर्वहणेन लब्धनिर्भररसो हृद्येष विद्योतते ॥॑॥'
इत्याचार्या जीवपरिच्छेदान्ते न्यायसिद्धाञ्जने । शैलूषवद्विवि-
धवेषपरिग्रहवन्तं भगवन्तं विविधभूमिकापरिग्रहवर्यं लीला-
रसोत्पादनेन सन्तोषयाम: । यदि कदाचिद्वयमहृदयमपि
प्रपन्नरूपप्रणतवेषं परिगृह्णीमस्तन्मात्रेण संतोषितः श्रियःपति-
रस्मान्हृदि भूषणत्वेन निधायात्मानं विद्योतयति । 'एष ह्ये-
वानन्दयाति' ' तद्धेतुव्यपदेशाच्च' इति श्रुतिसूत्राभ्यां सर्वे-
तरानन्दहेतुभूतो भगवानपि अनयापूर्वया प्रणतभूमिकया-
नन्दितो भवति । अद्भुतनवनाटकेषु विशेषप्रीतिं कुर्वन्तो
जनास्तद्रष्टुं प्रवेशदक्षिणां दत्वा नाटकशालामण्टपं गच्छन्ति,
प्रजागरं च कुर्वते । तद्दिदृक्षायास्तीव्रत्वेऽद्भुतत्वं नूतनत्वं च
निमित्तम् । प्रणतवेषश्चेतनस्य नूतनः, भगवतोऽद्भुतो नूत-