This page has been fully proofread once and needs a second look.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 

 
नुगतस्वरूपम्, ते विविधभूमिकाः परिगृह्य नटन्त एवासते ।

वयं नाट्येन भगवतो लीलारसमुत्पादयामः । सोऽत्रावतीर्य

भूमिकां परिगृ<flag>ह्ण्न्नटन्न</flag>स्मानुद्दिधीर्षति । अस्मदार्तिस्तमध आ-

नयति । अस्मदुन्निनीषया सोऽवतरति । कूपादिषु पतितान्

शिशुंशूंस्तत्रावतीर्णः पित्रादिरुद्दिधीर्षति । 'कान्तां प्राप्य बि-
वि-
चित्रकर्मरचितां पर्यायतो भूमिकां केनाप्यद्भुतनाटकेन कमपि

श्रीमन्तमानन्दयन् । कृत्वा शास्त्रमुखे मनः प्रतिमुखं गर्भा-

वमर्शात्परं विद्यानिर्वहणेन लब्धनिर्भररसो हृद्येष विद्योतते
॥॑
इत्याचार्या जीवपरिच्छेदान्ते न्यायसिद्धाञ्जने । शैलुषवद्विवि-
लूषवद्विवि-
धवेषपरिग्रहन्तं भगवन्तं विविधभूमिका परिग्रहवर्यं लीला-

रसोत्पादनेन सन्तोषयाम: । यदि कदाचिद्वयम हृदयमपि
प्रपन्न

प्रपन्न
रूपप्रणतवेषं परिगृह्णीमस्तन्मात्रेण संतोषितः श्रियःपति-

रस्मान्हृदि भूषणत्वेन निघाधायात्मानं विद्योतयति । 'एष हो-
ह्ये-
वानन्दयाति' ' तद्धेतुव्यपदेशाच्च' इति श्रुतिसूवात्राभ्यां सर्वे-

तरानन्दहेतुभूतो भगवानपि अनयापूर्वया प्रणतभूमिकया-

नन्दितो भवति । अद्भुतनवनाटकेषु विशेषप्रीतिं कुर्वन्तो

जनास्तद्रष्टुं प्रवेशदक्षिणां दत्वा नाटकशालामण्टपं गच्छन्ति,

प्रजागरं च कुर्वते । तद्दिदृक्षायास्तीव्रत्वेऽद्भुतत्वं नूतनत्वं च

निमित्तम् । प्रणतवेषश्चेतनस्य नूतनः, भगवतोऽद्भुतो नूत-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)